________________
३.३७]
तृतीयोन्मेषः
तेनामुना त्रिजगदर्पितकीर्तिभारो रक्ष:पतिर्ननु मनाङ् न विडम्बितोऽभूत् ।। १३७ ।। प्रतीयमानोपमोदाहरणे परस्य रसस्य संबन्धसमन्विनान्यनानतिरिक्तपरिस्पन्दोभयपदार्थवाचकवाच्यसामर्थ्यादेव क्रियापदादिप्रतिपादकविधिनाऽप्युपमाप्रतीतिरुपपद्यते । यथा
महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । . अनन्तपुष्पस्य मधोर्हि चूते
द्विरेफमाला सविशेषसङ्गा ॥१३८ ।। अत्र यस्मात्तथाविधानन्तसामग्रीकस्य मधोरपि तत्समानोग(नीतचते प्रीतिरुप)लप्स्यते इति न्याय्यमेतयोः सुव्यक्तमेव म यमुपगमयति, तथाचासंख्यकुसुमत्वादिधर्मसौकुमार्यातिरेकात् साम्यसंपत्त्यादिर्विवक्षितेत्याधुपमालक्षणतात्पर्य (म) विक लमेवाः, समर्यते । न चार्थान्तरन्यासभ्रान्तिरत्रोद्भावनीया, तस्य पाक्यार्थतात्पर्य (साम्य)लक्षणसामान्यमात्रविषयत्वात् ।
तस्मादनेन न्यायेन समानवस्तुन्यासोपनिबन्धना प्रतिवस्तूपमापि न पृथग्वक्तव्यतामर्हति, पूर्वोदाहरणेनैव समानयोगक्षेमत्वात् । तथाच लक्षणोदाहरणे तस्याः ममानवस्तुन्यासेन प्रतिवस्तूपमा यथा
कियन्तः सन्ति गुणिन: साधुसाधारणश्रियः ।
स्वादुपाकफलानम्रा: कियन्तो वाध्वशाखिन: : १३९॥ अत्र समान विलसितानामभयेषामपि कविविक्षित (ता)विरलत्वलक्षणसाम्यव्यतिरेकि (न) किंचिदन्यन्मनोहारि जी ितमतिरिच्य