________________
१७६ वक्रोक्तिजीवितम्
[३.३१ यथा वा
णीसासा खणविरहे फुरन्ति रमणीणसुरहिणो तस्स । कड्डिअ हिअअट्ठिअ
कुसुमबाणमअरंदलेसव्व ॥ १११ ॥ निःश्वासा क्षणविरहे स्फुरन्ति रमणीनां सुरभयस्तस्य ।
कृष्टहृदयस्थितकुसुमबाणमकरन्दलेशा इव ॥ छाया । अत्र वास्तवसादृश्योदाहरणं यथा
उत्फुल्लचारुकुसुमस्तबकेन नम्रा येयं धुता रुचिरचतलता मृगाक्ष्या। शङ्के न वा विरहिणीमदुमर्दनस्य
मारस्य तजितमिदं प्रतिपुष्पचापम् ॥ ११२॥ अत्रासूत्रितार्थव्यतिरेकिवस्त्वन्तरविधानादपह्नतिभ्रान्तिन विधातव्या, यतस्तस्याः प्रथमोद्भेदजीवितमुत्प्रेक्षा न पुनरपह्नतिरेतस्याः। तदेवानन्तरं व्यक्तिमायास्यति । तदिवेत्यत्र वादिभिविनोदाहरणं यथा
चन्दनासक्तभुजगनि:श्वासानिलमछितः ।
मर्छयत्येष पथिकान् मधौ मलयमारुत: ॥११३॥ यथा वा -
__“देवि त्वन्मुखपङ्कजेन" ॥११४।। इत्यादि । यथा वा
"त्वं रक्षसा भीरु" ॥ ११५॥ इत्यादि । तदेवेत्यत्र वाचकं विनोदाहरणम् । यथा
"एकैकं दलमुन्नमय्य" ॥ ११६ ।।