________________
१५० वक्रोक्तिजीवितम्
[३.१३ वर्णनीयान्तरे रूपकादिवत् तद्विरुद्धस्य समृद्धि रहितस्य वर्णनीयान्तरस्य चालंकारत्वप्रसंगात् उदात्तस्य न कथंचिदपि भूषणत्वोपपत्तिरस्ति ।
तथा द्वितीयस्याप्युदात्तप्रकारस्यालंकार्यत्वमेवोपपन्नं, न पुनरलंकारभावः । तथा चैतस्य लक्षणम् -
"........... चरितं च महात्मनाम् ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्" ।। ५५ रवगध }} इति । तत्र वाक्यार्थपरमार्थविद्भिरेवं पर्यालोच्यताम्, यन्महानुभावानां व्यवहारस्य लक्षणमात्रवृत्तेरन्वयः प्रस्तुते वाक्यार्थे कश्चित् विद्यते न वेति। तत्र पूर्वस्मिन् पक्षे तत्र तदलीनत्वात् पृथगभिधेयस्यापि पदार्थान्तरवत् तदवयवत्वेनैव व्यपदेशो न्याय्यः, पाण्यादेरिव शरीरे, न पुनरेवालंकारभावोऽपि इति । द्वितीयस्मिन् पक्षे तदन्वयाभावादेव वाक्यान्तरवर्तिपदार्थवत् तत्र तस्य सत्तैव न संभवति इति न पुनरलंकारचर्चा ।
ननु च रूपकादेरलंकारस्यापि तत्रान्वयो विद्यते, ततस्तस्यापि तदन्वितत्वात् अलंकारता निवर्तते । सत्यमेतत् , किं तु तदन्वितस्य द्वैविध्यं विद्यते, अपकर्षान्तरवत् प्रस्तुततात्पर्याङ्गभावेन, विभषणान्तरवत् तदुपशोभाकारित्वमात्रेणैव च। तत्र पूर्वस्मिन् पक्षे युक्तिरुक्तैव । तद्विच्छित्तिविधायित्वमात्रे महापुरुषचरितस्य दूषणानीति न दुष्परिहराण्येव। तद्विरुद्धवृत्तेर्वर्णनीयान्तरस्यालंकारत्वप्रसङ्गः । अलंकारान्तरसंनिधाने तदपेक्षानिबन्धनसंसृष्टिसंकरव्यपदेशयोग्यता, विषयान्तरेऽप्यलंकारान्तरवत् प्रवर्तनं चेति ।
यदपि समञ्जसोदाहरणबन्धनव्यसनितया पूर्वसूरिभिरत्रादरप्रथनपूर्वकं प्रतिष्ठितम् , तदपि प्रस्तुततात्पर्यपरायत्तवृत्तित्वादेव (सहृदयभाव) नां प्रति मनागपि न पात्रता प्रतिपद्यते ।