________________
३.१३] तृतीयोन्मेषः
१४९ तस्मादेवंविधस्य चित्तवृत्तिविशेषत्वात् रसभावतदाभासानां यथायोगमेकतमस्मिन् विवक्षावशादन्तर्भावः संभवतीत्यलंकार्यत्वमेव युक्तम् न त्वलंकारभाव इति । तस्मान्न रसवदाद्यभिहितदूषणपात्रतामतिकामति । तदेतदुक्तमत्र सर्वमेव योजनीयम् । तद्वद्“अपकर्ताहमस्मि” इत्यपरमदाहरणमनेनैव न्यायेन समानयोगक्षेमप्रायमिति गतार्थमेव ।
एवमुदात्तस्योभयप्रकारस्याप्यलंकार्यतैव युक्तिमती न पुनरलंकरणत्वं, तत्र प्रथमस्य तावल्लक्षणवाक्यमेव दुरधिगमसमन्वयम्
उदात्तमृद्धि मद्वस्तु ।। ५५क।। इति । अत्र यद्वस्तु तदुदात्तम्, अलकरणं कीदृशमित्याकाङ्क्षायाम् ऋद्धिमदित्यनेन यदि विशेष्यते तत्तदेव संपदुपेतं वस्तु वर्ण्यमानमलंकार्यं तदेवालंकरणमिति स्वात्मनि क्रियाविरोधलक्षणस्य दोषस्य दुनिवारत्वात् स्वरूपादतिरिक्तस्य वस्त्वन्तरस्याप्रतिभासनात् ऊर्जस्विवदुदात्तेऽ (पि भूष)णभावानुपपत्तिः ।
अथवा ऋद्धिमद्वस्तु यस्मिन् यस्येत्यपि व्याख्यानं क्रियते, तथापि तदन्यपदार्थलक्षणं वस्तु वक्तव्यमेव यत्समासार्थोपनीतम् । तत्काव्यमेव तथाविधं भविष्यतीति चेत्तदपि न किंचिदेव, यस्मात् काव्यस्यालंकार इति प्रसिद्धिर्न पुनः काव्यमेवालंकरणमिति । ___ यदि वा ऋद्धिमद्वस्तु यस्मिन् यस्य वा इत्यसावलंकारः (एव) समासार्थनोपनीयते तथापि वर्णनीयादतिरिक्तमलंकरणकल्पमन्यदत्र (न किं) चिदेवोपलभ्यते इत्युभयथापि शब्दार्थासंगतिलक्षणो दोषः संप्राप्तावसरः संपद्यते।
किं चोदात्तस्यालंकरणत्वे सति, अलंकरणान्तरविधानात् तदक्षानिबन्धनस्य संसृष्टिसंकरव्यपदेशस्याप्रसिद्धरन्यस्मिन् विषये