SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ १४८८ वक्रोक्तिजीवितम् [३.१३ कमपरवशं न विप्रकुर्युः विभुमपि तं यदमी स्पृशन्ति भावा: ॥५४ ।। तदेतदवसरापतितमस्माभिः पर्यालोचितम् । ___ ननु भरतनयनिपुणमानसानां परमार्थविदां तत्रभवतां (अस्मिन् विषये) वयं विवदामहे, योऽयमत्रोदाहृतः स भगवान् रसाभासविषयतया वर्णनीयतामहति न वेति ? किमौचित्यानौचित्यपरिकल्पनेन। सर्वथा यथा तत्रभवद्भयः प्रतिभासते तत्तथैवास्ताम् । तथापि तथाविधस्तदीयश्चित्तवृत्तिविशेषः प्राधान्येन वर्ण्यमानत्वात् अलंकार्यतां नातिकामति । "द्विः सन्दधाति" इत्यादौ वीरस्य वक्तर्लोकोत्तरपौरुषाभिधानव्यसनिनः सहजोत्साहोत्सिक्तचित्तवृत्त्यतिशयव्यतिरेकेण न किंचिदन्यन्मुख्यतया वाक्यार्थतामुपनीतम् । तथाहि—सायकसन्धानक्रियाभ्यावृत्तिगणनमकस्मादपि स्वपरिस्पन्दतिरस्कारकारणं मन्यमानः किमित्यनेन परिहरति । कर्ण इत्यभिमानप्रतीतिः (प्रधानं पुरुषवक्रभावोपबृंहित) रूढिवैचित्र्ययोगिनः शल्येत्यामन्त्रणपदस्याभिप्रायः । पार्थायेति सामान्यस्य कस्यचिदाकारान्तरशब्द(र ?) प्रतीकारस्य शत्रोः कृते तत्प्रतिघातसमर्थोपाध्यन्तरोपकरणं कदाचित्संभाव्येतापि इति प्रकरणात् प्रतीयते । आगत इति तत्प्रतिनिय-तार्थं (मनार्थ) प्रयत्नेनाभिमानेनान्योऽपि स्वयमागतः सन् अपाकृत इत्यभिमानोत्कर्षप्रतीतिः प्रकरणाद्गम्यते । उदाहरणमेवोजितम् । तदेवमयं प्रधानचेतनलक्षणोपकृतातिशयविशिष्टचित्तवृत्तिविशेषः वस्तुस्वभाव एव मुख्यतया वर्ण्यमानत्वात् अलंकार्यों न पुनरलंकारः । तदिदमुक्तम् - उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम् । वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रता ॥ इति ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy