________________
३.१३]
तृतीयोन्मेषः
. १४७ यथा वा
अपकर्ताहमस्मीति हृदि ते मास्म भद्भयम् ।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति ॥५२॥ इति । तत्र प्रथमयोर्लक्षणोदाहरणयोस्तावदेतत् पर्यालोचनीयम् किं तदनौचित्यं नाम, येन (तथा) प्रवृत्तानां रसादीनामुपनिबन्धनमलंकारः संपद्यते । यस्मादौचित्यप्रतियोगिना तेन प्रतीयमानानां तेषां (न केवलं) परिपोषपरिहाणिः, प्रत्युत सौकुमार्यविरहः सावकाशतां प्रतिपद्यते । तदिदमुक्तम् -
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ॥५३॥ इति। यदि वा न पारमार्थिकमनौचित्यमत्र विवक्षितमपि तु विभावानुभावव्यभिचायौं चित्याभिव्यङ्गयप्रस्तावान्तरविषय निरव - द्यरसापेक्षया किमपि प्रस्तुतानुगुणमेव, तथा च "कामक्रोधादिकारणात्" इति युक्तिरुपन्यस्तेत्युच्यते, तदपि न सु स्थितसमाधि । यस्मादौचित्यपरिपोष पुष्कलरसापेक्षया किंचिदनौचित्ययुक्तरसभावोपनिबन्धनं परिमितसत्त्वप्रायप्राणिमात्रविषये कामादिकारणात् करणीयतामर्हति न पुनरुदाहृते विषये। (पुष्क)लविभावादिसमुदयसमुल्लासितः सहजकविशक्तिकौशलसमुद्भासितसौकुमार्यसमर्पितस्वाभाविकरामणीयक: सरसमतिमतः चन्द्रकान्तकौमुदीप्रकाशवदाश्चर्यविलासप्रसार्यमाणोपपत्तेः समुचितोऽपि रस: परमसौन्दर्यमावहति । तत् कथमनौचित्यपरिम्लानः कामादिकारणकल्पनोपसंहतवृत्तिरलङ्कारतावभासतां प्रयास्यति? तथा च तथाविधे विषये वर्णनीयान्तरसमानतया रसवत्तां परिकल्पयन्तः सत्कवयो नितान्तं (वि)राजन्ते । यथा
पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः ।