________________
१४६ वक्रोक्तिजीवितम्
[३.१३ प्राप्नोति । न च क्वचिदपि तथा दृश्यते, तस्मादन्य त्रादर्शनादपि न च युक्तियुक्तमलंकरणत्वं, रसवतोऽपि तदेकयोगक्षेमत्वात् एवमेव विभूषणत्वमनुपपन्नम् । - एवंमलंकरणतां प्रेयसः प्रत्यादिश्य वर्णनीयशरीर त्वात्तदेक - रूपाणामन्येषां प्रत्यादिशति
ऊर्जस्व्युदात्तयोस्तद्वद् भूषणत्वं न विद्यते ।
तथा समाहितस्यापि प्रकारद्वयशोभिनः ॥१३॥ ऊर्जस्व्युदात्ताभिधानयोः पौर्वापर्यप्रणीतयोरलंकरणयोः “भषणत्वं"अलंकरणत्वं “न विद्यते”—न संभवति । कथं “तद्वत्" । तद्वदित्यनन्तरोक्तरसवदादिपरामर्शः, तेन तद्वत् तयोरिव प्रथमप्रतिषिद्धविभूषणभाव-रसादिवदेतयोविभूषणत्वं नास्तीत्यर्थः ।
(यद्यपि) चिरन्तनर्लक्षणोदाहरणदर्शनपूर्वकमेतयोरलंकरणत्वमा. ख्यातं, तथाप्ययुक्तियुक्तत्वात् (तत्) नोपपद्यते-तथा च कश्चित् प्रथमस्य लक्षणमुदाहरणं च दर्शितं यथा
अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्ज स्वि कथ्यते ॥४९॥ तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम् ।
संगृहीतुं प्रववृते हठेनापास्य सत्पथम् ॥५०॥ इति । कैश्चिदुदाहरणमेव वक्तव्यत्वाल्लक्षणं मन्यमानस्तदेव प्रदर्शितम्। यथा वा
ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागत: । द्वि: सन्दधाति किं कर्ण: शल्येत्यहिरपाकृतः ॥५१ ।।