________________
३.१२] तृतीयोन्मेषः
१४५ पूर्वसूरयः काव्ये प्रवर्तिततद्व्यवहाराः संवृत्ताः। लोके त्रिभुवनान्तरवर्तिपदार्थजातमनन्तं सिद्धविद्याधराद्यलंकार्यम्, अलंकरणानि कटककेयूरादीनि कतिचिदेव, तदेवमेव काव्ये वर्णनाविषयस्य वस्तुनः शरीरमपर्यवसितमलंकार्यम्, तथैवालंकरणान्युपमादीनि कतिचिदेव । वर्णनीयस्य प्रेयःप्रभृतेरलंकारत्वे वर्ण्यमानादन्यालंकरणानामानन्त्यप्रसङ्गः । ततः परिसमा प्त्यभावे संभावनावदभिधादीनामनारम्भः । तस्माल्लौकिकव्यवहारान्यनानतिरिक्तमेवालंकार्यालंकारव्यवहारः काव्यविषयेऽपि वाच्यतामर्हति ।
अत्रैव दूषणान्तरमुपन्यस्यति - “अलंकारान्तरे” इति । संसृष्टिसंकरौ स्याताम् । प्रथमः (मं) प्रियतराख्यानमात्रसाधनस्य वर्ण्यमानत्वादलंकार्यस्याप्यलंकरणत्वे सति, अलंकारान्तरं रूपकादि यदा विधीयते तदा तस्मिन् विधीयमाने प्रेयसः संसर्गसंकीर्णतानिबन्धने संसृष्टिसंकरावलंकारविशेषौ स्याताम् भवेताम् । प्रेयोभणितियुक्तेषु वाक्येषु तज्जैन संसृष्टिसकरव्यवहार: कदाचिदपि प्रवर्तितपूर्वः तथा प्रतिभासाभावात् । यथा
इन्दोर्लक्ष्म स्मरविजयिनः कण्ठमलं मुरारि: दिङ्नागानां मदजलमषीभाजि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक श्यामलिम्नानु (वि)लिप्ता
न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयः ॥४८॥ अत्र प्रेयोभिहितिरलंकार्या, व्याजस्तुतिरलंकरणम् ; न पुनरुभयोरलंकारप्रतिभासो येन संसृष्टिव्यपदेशः संकरव्यपदेशो वा प्रवर्तते तृतीयस्यालंकार्यतया वस्त्वन्तरस्याप्रतिभासनात् ।
एतदेव प्रकारान्तरेण प्रत्याख्यातुमुपक्रमते “अन्यत्रादर्शनादपि" (इति)। “अन्यत्र" अन्यस्मिन् विषये प्रेयोभणितिविविक्ते वर्णनीयान्तरे प्रेयसो विभूषणत्वात् (त्वे) उपमादेरिवोपनिबन्धः
10