________________
१४४ वक्रोक्तिजीवितम्
[३.१२ च्यते (यत्) तदेव वर्ण्यमानविषयतया वस्तुनः स्वरूपं, तदेवालंकरणमित्यलंकार्य न किंचिदवशिष्यते। तस्यैवोभयमलंकार्यत्वमलंकरणत्वं चेत्ययुक्तियुक्तम् । एकक्रियाविषयं युगपदेकस्यैव वस्तुनः कर्मकरणत्वं नोपपद्यते। यदि दृश्यन्ते तथाविधानि वाक्यानि येषामु भयमपि संभवति
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥४७॥ इत्यभिधीयते, तदपि नि:समन्वयप्रायमेव । यस्मादत्र वास्तवेऽप्यभेदे काल्पनिकमुपचारसत्तानिबन्धनं विभागमाश्रित्य तद्वयवहारः प्रवर्तते । किं च विश्वमयत्वात् परमेश्वरस्य परमेश्वरमयत्वाद्वा विश्वस्य, पारमार्थिकेऽप्यभेदे माहात्म्यप्रतिपादनार्थं प्रातिस्विकपरिस्पन्दविचित्रां जगत्प्रपञ्चरचनां प्रति सकलप्रमातृतामस्य संवेद्यमानो भेदावबोधः स्फुटावकाशतां न कदाचिदष्यतिक्रामति । तस्मादत्र परमेश्वरस्यैव रूपस्य कस्यचित्तदाप्यमानत्वात् वेदनादेः क्रियायाः कर्मत्वं कस्यचित्साधकतमत्वात् करणत्व मिति न किंचिदसंगतम् । उदाहरणे पुनरपोद्धारबुद्धिपरिकल्पनयापि न कथंचिदपि विभागो विभाव्यते । तस्मात् “स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात्" इति दूषणमत्रापि संबन्धनीयम् । अविभागपक्षे च तदेवालंकार्यं तदेवालंकरणमिति प्रेयसो रसवतश्च स्वात्मनि क्रियाविरोधात् “आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति". इति स्थितमेव । ___ अथ दूषणान्तरं ददाति तद्विरुद्धः स्यादिति । [अनेन न्यायेन वर्ण्यमानत्वात्तद्विरुद्धस्य प्रेयसः प्रतिपक्षोऽपि अप्रेयः प्रसादाधिकृतः; तस्मादलंकारो भवेत् । तथापि को दोषः स्यादिति चेत्तदपि न सम्यक, तैरेव तथानभ्युपगमात् । अन्यच्च लौकिकमलंकार्यालंकरणव्यवहारं पर्यालोच्य तथाविधत्वसामान्यमानं समाश्रित्य