________________
तृतीयोन्मेष
१४३
योक्तान्यापदेशन्यायेन वाच्यताऽव्यतिरिक्तयोः प्रतीयमानतया, न करुणस्य रसत्वाद् व्यङ्ग्यस्य सतो वाच्यत्वमुपपन्नम् । नापि गुणीभूतव्यङ्गयस्य विषयः, व्य ( जयस्य प्राधान्येन क) रुणात्मनंव प्रतिभासनात् । न च द्वयोरपि व्यङ्गयत्वम्, अङ्गाङ्गिभावस्यानुपपत्तेः । एतच्च यथासंभव मस्माभिर्विकल्पितम्, न पुनस्त (न्यायमत्र प्रयोजकमित्यलं वि) स्तरेण ।
३.१२]
किंच ' काव्ये तस्मिन्नलंकारो रसादि:' इति रस एवालंकारः केवल: न तु रसवदिति मतुप्प्रत्ययस्य जीवितम् न किंचिदभिहितं स्यात् । एवं सति शब्दार्थसङ्गतेरभावादनवस्थैव तिष्ठतीत्येतदपि न किंचित् ।
एवमलंकारतां रसवतः प्रत्याख्याय वर्ण्यमानार्थशरीरत्वात् तदेकयोगक्षेमस्य प्रेयसः संप्रति ( तां) वा ( रयति ) : - न ' प्रेयस्तद्विरुद्धः स्यादप्रेयः' इति -
न प्रेयस्तद्विरुद्धः स्यादप्रेय ( ऽसावलंकृतिः) । अलंकारान्तरे स्यातामन्यत्रादर्शनादपि ॥१२॥
यश्चिरंतनैरलंकारः समाम्नातः तस्य न तद्भावः संभवति । यस्मात् कैश्चित् " प्रेयः प्रियतराख्यान "मिति लक्षणं प्रेयसः समाख्यातम्। कैश्चित्तस्योदाहरणमात्रमेव लक्षणं मन्यमानस्तु (ता) वदेव प्रदर्शितम् । यथा
प्रेयो गृहागतं कृष्णमवादीद्विदुरो यथा । कालेनैषा भवेत्प्रीतिस्तवैवागमनात् पुनः ॥ ४५ ॥ इति ।
पूर्वेषां चैतदेवोदाहरणमभिमतम् । तथा च तैरुक्तम्अद्य या मम गोविन्द जाता त्वयि गृहागते ॥ ४६ ॥
इति । तदेव न क्षोदक्षमतामर्हति । तथा च कालेने (त्यादिनो ) -