________________
१४० वक्रोक्तिजीवितम्
३.११] पोषपरतया लब्धात्मनामलंकाराणां प्रातिस्विकलक्षणाभिहितातिशयव्यतिरिक्तमनेन न किंचिदाधिक्यमाधीयते । तस्मात्तत्तल्ल(क्षण) करणवैयर्थ्यमप्रतिवारितप्रसरमेव परापतति । न चैवंविधविषये रसवदलंकारव्यवहारस्यावकाशः, तज्ज्ञैस्तथानवगमात्, अलंकारान्तराणां च मुख्यतया व्यवस्थानात् ।
अथवा चेतनपदार्थगोचरतया रसवदलंकारस्य, निश्चेतनवस्तुविषयत्वेन चोपमादीनां विषयविभागो व्यवस्थाप्यते, तदपि न विद्वज्जनावर्जनं विदधाति । यस्मादचेतनानामपि रसोद्दीपनसामर्थ्यसमुचितसत्कविसमुल्लिखितसौकुमार्यसरसत्वादुपमादीनां प्रविरलविषयता निर्विषयत्वं वा स्यादिति शृङ्गारादिरसनिस्यन्दसुन्दरस्य सत्कविप्रवाहस्य च नीरसत्वं प्रसज्यत इति प्रतिपादितमेव पूर्वसूरिभिः । यदि वा वैचित्र्यान्तरमनोहारितया रसवदलंकारः प्रतिपाद्यते, यथाभियुक्ततरैस्तै रेवाभ्यधायि
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥४२॥ इति । यत्रान्यो वाक्यार्थः प्राधान्यादलंकार्यतया व्यवस्थितस्तस्मिन् तदङ्गतया विनिबध्यमानः शृङ्गारादिरलंकारतां प्रतिपद्यते । यस्माद् गुण: प्रधानं भावाभिव्यक्तिपूर्वमेवंविधविषये विभषयति, तस्माद् भषणविवेकव्यक्तिरुज्जम्भते, यथा क्षिप्तो हस्तावलग्न: प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः सास्रनेत्रोत्पलाभिः कामीवार्द्रापराध: स दहतु दुरितं शाम्भवो वः शराग्निः ॥४३॥ अत्र सास्रनेत्रोत्पलादिशब्दगम्यवैक्लव्यस्य शाम्भवशराग्निदह्यमानासुरसुन्दरीणां, त्रिपुररिपुप्रभावप्रख्यापनपरस्य प्रयोजकत्वेन