SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ३.११] यथा वा तृतीयोन्मेषः १३९ तरङ्गभ्रूभङ्गा (क्षुभित) विहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् । यथाविद्धं याति स्खलितमभिसंधाय बहुशो नदी भावेनेयं ध्रुवमसहना सा परिणता ॥ ४१ ॥ अत्र रसवत्त्वमलंकारश्च प्रकटं प्रतिभासेते । तस्मान्न कथंचिदपि तद्विवेकस्य दुरवधानता । तेन रसवतोऽलंकार इति षष्ठीसमासपक्षे शब्दार्थयोर्न किंचिदसङ्गतत्वम्, रसपरिपोषपरत्वादलंकारस्य तन्निबन्धनमेव रसवत्त्वम् । रसवांश्चासावलंकारश्चेति विशेषणसमासपक्षेऽपि न किञ्चिदसङ्गतत्वम् । तथा चैतयोरुदाहरणयोलतायाः सरितश्चोद्दीपनविभावत्वेन वल्लभाभावितान्तःकरणतया नायकस्य तन्मयत्वेन ( निश्चेतन ?) मेव पदार्थजातं सकलमवलोकयतः तत्साम्यसमारोपणं तद्धर्माध्यारोपणं चेत्युपमारूपककाव्यालंकारयोजनं विना न केनचित् प्रकारेण घटते, तल्लक्षणवाक्यत्वात् । सत्यमेतत्, किन्तु 'अलंकार' शब्दाभिधानं विना विशेषणसमा [सप ] क्षे केवलस्य रसवानिति [ अस्य ] प्रयोगः प्राप्नोति । रसवानलंकार इति चेत् प्रतीतिरभ्युपगम्यते, तदपि युक्ति ( युक्ततां नार्हति ), रूपकादेरभावात् । रसवतोऽलंकार इति षष्ठीसमासपक्षोऽपि न सुस्पष्टसमन्वयः । सर्वस्य कस्यचित् काव्यस्य रसवत्त्वमेव । यस्मात्सातिशयत्वनिबन्धनं तथाविधं तद्विदाह्लादकारि काव्यं करणीयमिति तस्यालंकार इत्याश्रिते सर्वेषामेव च रूपकादीनां रसवदलंकारत्वमेव न्यायोपपन्नतां प्रतिपद्यते । अलंकारस्य च यस्यकस्यचित्सर्वस्य रसवत्त्वाद् विशेषणसमासपक्षेऽप्येषैव वार्त्ता । किंच तदभ्युपगमेऽपि प्रत्येकमुत्स्खलितलक्षणानां प्रकृतपरि
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy