SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ १३८ वक्रोक्तिजीवितम् उदाहरणजातमप्यस्य लक्षणस्य पूर्वेण समानयोगक्षेमप्रायमिति [न] पृथक् पर्यालोच्यते । [३.११ रसपेशलम् ।। ३९ ।। इति पाठे न किंचिदत्रातिरिच्यते । अथ ( वस्तुस्वभावरसादि ) प्रतिपादकवाक्योपारूढपदार्थसार्थस्वरूपमलंकार्यं रसस्वरूपानुप्रवेशेन विगलितस्वपरिस्पन्दानां द्रव्याणाम् इव कथमलंकरणं भवतीत्येतदपि चिन्त्यमेव । किंच तथाभ्युपगमेऽपि प्रधानगुणभावविपर्यासः पर्यवस्यतीति न किंचिदेतत् । अत्रैव ( दूषणान्तरम् ) पक्रमते – शब्दार्थासङ्गतेरपि । शब्दार्थ - योरभिधानाभिधेययोरसमन्वयाच्च रसवदलंकारोपपत्तिर्नास्ति । अत्र च रसो विद्यते ( तिष्ठ ) ति यस्येति मतुप्प्रत्यये विहिते तस्यालंकार इति षष्ठीसमासः क्रियते, रसवांश्चासावलंकारश्चेति विशेषणसमासो वा । तत्र पूर्वस्मिन् पक्षे - रसव्यतिरिक्तं किमन्यत् पदार्थान्तरं विद्यते यस्यासावलंकारः । काव्यमेवेति चेत्, तत्रापि तद्वयतिरिक्तः कोऽसौ पदार्थो यत्र रसवदलंकारव्यपदेश: सावकाशतां प्रतिपद्यते ? विशेषातिरिक्तः पदार्थो न कश्चित् परिदृश्यते यस्तद्वानलंकार इति व्यवस्थितिमासादयति । तदेवमुक्तलक्षणे मार्गे रसवदलंकारस्य शब्दार्थ सङ्गतिनं काचिदस्ति । यदि वा निदर्शनान्तरविषयतया समासद्वितयेऽपि शब्दार्थसङ्गतियोजना विधीयते, यथा तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद् विश्रान्तपुष्पोद्गमा । चिन्तामौनमिवास्थिता मधुकृतां शब्दविना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥ ४० ॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy