________________
१३७
३.११]
तृतीयोन्मेपः युक्तिमती। यदपि कैश्चित्
स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥३७॥ इत्यनेन पूर्वमेव लक्षणं विशेषितम्, तत्र स्वशब्दास्पदत्वं रसानामपरिगतपूर्वमस्माकम् । ततस्त एव रससर्वस्वसमाहितचेतसस्तत्परमार्थविदो विद्वांस एवं प्रष्टव्याः-कि स्वशब्दास्पदत्वं रसानामुत रसवत इति । तत्र पूर्वस्मिन् पक्षे--रस्यन्त इति रसास्ते स्वशब्दास्पदास्तेषु तिष्ठन्तः शृङ्गारादिषु वर्तमानाः सन्तस्तज्ज्ञरास्वाद्यन्ते । तदिदमुक्तं भवति-यत् स्वशब्दरभिधीयमानाः श्रुतिपथमवतरन्तश्चेतनानां चर्वणचमत्कारं कुर्वन्तीत्यनेन न्यायेन घृतपूरप्रभृतयः पदार्थाः स्वशब्दरभिधीयमानास्तदास्वादसंपदं संपादयन्तीत्येवं सर्वस्य कस्यचिदुपभोगसुखार्थिनस्तरुदारचरितैरयत्नेनैव तदभिधानमात्रादेव त्रैलोक्यराज्यसंपत्सौख्यसमद्धिः प्रतिपाद्यत इति नमस्तेभ्यः ।
रसवतस्तदास्पदत्वं नोपपद्यते, रसस्यैव स्ववाच्यस्यापि तदास्पदत्वाभावात्, किमतान्यस्येति । तदलंकारत्वं च प्रथममेव प्रतिषिद्धम् । शिष्टं स्थाय्यादि पूर्वलक्षणं व्याख्यातमेवेति न पुन: पर्यालोच्यते । यदपि
रसवद्रससंश्रयात ।। ३८॥ . इति कैश्चिल्लक्षणमकारि तदपि न सम्यक् समाधेयतामधितिष्ठति । तथा हि-रसः संश्रयो यस्यासौ रससंश्रयः, तस्मात् कारणादयं रसवदलंकारः संपद्यते । तथापि वक्तव्यमेव-कोऽसौ रसव्यतिरिक्तवत्तिः अन्यपदार्थः? काव्यमेवेति चेत् तदपि पूर्वमेव प्रत्युक्तम्, तस्य स्वात्मनि क्रियाविरोधादलंकारत्वानुपपत्तेः । अथवा रसस्य संश्रयो रसेन संश्रियते यस्तस्माद् रससंश्रयादिति । तथापि कोऽसाविति व्यतिरिक्तत्वेन वक्तव्यतामेवा (याति)।