________________
वक्रोक्तिजीवितम्
[३.११
पाद्यमानादन्यदेव तदुपशोभानिबन्धनं प्रतिपादनवैचित्र्यम्, न पुनः प्रतिपाद्यमानमेव । स्पष्टतया दर्शितं रसानां प्रतिपादनवैचित्र्यं यद्यभिधीयते, तदपि न सुप्रतिपादनम् । स्पष्टतया दर्शने शृङ्गारादीनां स्वरूपपरिनिष्पत्तिरेव पर्यवस्यति । किंच रसवतः काव्यस्यालंकार इति तथाविधस्य सतस्तस्यासाविति न किंचिदनेन तस्याभिधेयं स्यात् । अथवा तेनैवालंकारेण रसवत्त्वं तस्याधीयते, तदेवं तर्ह्यसौ न रसवतोऽलंकारः प्रत्युत रसवानलंकार इत्यायाति, तन्माहात्म्यात् काव्यमपि रसवत् संपद्यते । यदि वा तेनैवाहितरससम्बन्धस्य रसवतः काव्यस्यालंकार इति तत्पश्चाद्रसवदलंकारव्यपदेशमासादयति – यथाग्निष्टोमयाज्यस्य पुत्रो भवितेत्युच्यते, तदपि न सुप्रतिबद्धसमाधानम् । यस्माद् 'अग्निष्टोमयाजि ' - शब्द: प्रथमं भूतलक्षणे विषयान्तरे निष्प्रतिपक्षतया समासादितप्रसिद्धिः पश्चाद् भविष्यति वाक्यार्थ सबन्धलक्षणयोग्यतया तमनुभवितुं शक्नोति । न पुनरत्रैवं प्रयुज्यते । यस्माद्रसवतः काव्यस्यालंकार इति तत्संबन्धितयैवास्य स्वरूपलब्धिरेव । तत्संबन्धिनिबन्धनं च काव्यस्य रसवत्त्वमित्येवमितरेतराश्रयलक्षणदोष: केनापसार्यते । यदि वा रसो विद्यते यस्यासौ तद्वानलंकार एवास्तु इत्यभिधीयते, तथाप्यलंकारः काव्यं वा नान्यत् तृतीयं किंचिदत्रास्ति । तत्पक्ष द्वितयमपि प्रत्युक्तम् । उदाहरणं लक्षणैक योगक्षेमत्वात् पृथङ् न विकल्प्यते ।
ܘܕܕ
मृतेति प्रेत्यङ्गन्तुं यया मे मरणं स्मृतम् 1 सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥ ३६॥
अत्र रतिपरिपोष लक्षण वर्णनीयशरीरभूतायाश्चित्तवृत्तेरतिरिक्तमन्यद्विभक्तं वस्तु न किंचिद्विभाव्यते । तस्मादलंकार्यव