________________
३.११] तृतीयोन्मेषः
१३५ अलंकारो न रसवत् । रसवदिति योऽयमुत्पादितप्रतीतिर्नामालंकारस्तस्य विभूषणत्वं नोपपद्यते इत्यर्थः । कस्मात् कारणात् - स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात् । वर्ण्यमानस्य वस्तुनो यत् स्वरूपमात्मीयः परिस्पन्दस्तस्मादतिरिक्तस्याभ्यधिकस्य परस्य अन्यस्य अप्रतिभासनाद् अनवबोधनात् । तदिदमत्र तात्पर्यम् – यत् सर्वेषामेव अलंकृतानां सत्कविवाक्यानामिदमलंकार्यमिदमलंकरणम् इत्यपोद्धारविहितो विवित्त्कभावःसर्वस्य यस्य कस्यचित् प्रमातुश्चेतसि परिस्फुरति । रसवदलंकारवदित्यस्मिन् वाक्येपुनरवहितचेतमोऽपि न किंचिदेतदेव बध्यामहे ।
तथा च-यदि शृङ्गारादिरेव प्राधान्येन वर्ण्यमानोऽलंकार्यः तत स्तदन्येन केनचिदलंकरणेन भवितव्यम् । यदि वा तत्स्वरूपमेव तद्विदालादनिबन्धनत्वादलंकरणमित्युच्यते तथापि तद्वयतिरिक्तमन्यदलंकार्यतया प्रकाशनीयम् । तदेवंविधो न कश्चिदपि विवेकश्चिरन्तनालंकारकाराभिमते रसवदलंकारलक्षणोदाहरणमार्गे मनागपि विभाव्यते । तथा च ।
रसवद्दर्शितस्पष्टशृङ्गारादि ॥३५ ।। इति रसवल्लक्षणम् । अत्र दर्शिताः स्पृष्टाः स्पष्टं वा शृङ्गारादयो यत्रेति व्याख्याने काव्यव्यतिरिक्तो न कश्चिदन्यः समासार्थभतः संलक्ष्यते । योऽसावलंकारः काव्यमेवेति चेत् तदपि न सुस्पष्टसौष्ठवम् । यस्मात् काव्यैकदेशयोः शब्दार्थयोः पृथक पृथगलंकाराः सन्तीत्युपक्रम्येदानी काव्यमेवालंकरणमित्युपक्रमोपसंहारवैषम्यदुष्टत्वमायाति । यदि वा दर्शिताः स्पष्टं शृङ्गारादयो येनेति समासः, तथापि वक्तव्यमेव -- को साविति । प्रतिपादनवैचित्र्यमेवेति चेत्, तदपि न सम्यक् समर्थनार्हम् । यस्मात् प्रति