________________
१३४
वक्रोक्तिजीवितम्
[३.१०-१९
धर्मादिसाधनोपायपरिस्पन्दनिबन्धनम् । व्यवहारोचितं चान्यल्लभते वर्णनीयताम् ॥ १० ॥
व्यवहारोचितं चान्यत् । अपरं पदार्थानां चेतनाचेतनानां स्वरूपमेवंविधं वर्णनीयतां लभते कविव्यापारविषयतां प्रतिपद्यते । कीदृशम् - व्यवहारोचितम् लोकवृत्तयोग्यम् । कीदृशं सत्धर्मादिसाधनोपायपरिस्पन्दनिबन्धनम् । धर्मादेश्चतुर्वर्गस्य साधने संपादने उपायभूतो यः परिस्पन्दः स्वविलसितं तदेव निबन्धनं यस्य तत्तथोक्तम् । तदिदमुक्तं भवति यत् काव्ये वर्ण्यमानवृत्तयः प्रधानचेतनप्रभृतयः सर्वे पदार्थाश्चतुर्वर्गसाधनोपायपरिस्पन्दप्राधान्येन वर्णनीया, येऽप्यप्रधानचेतनस्वरूपाः पदार्थास्तेऽपि धर्मार्थाद्युपायभूतस्वविलासप्राधान्येन कवीनां वर्णनीयतामवतरन्ति । तथा च राज्ञां शूद्रकप्रभृतीनां मन्त्रिणां च शुकनासमुख्यानां चतुर्वर्गानुष्ठानोपदेशपरत्वेनैव चरितानि वर्ण्यन्ते । अप्रधानचेतनानां हस्तिहरिणप्रभृतीनां संग्राममृगयाद्यङ्गतया परिस्पन्दसुन्दर स्वरूपं लक्ष्ये वर्ण्यमानतया परिदृश्यते । तस्मादेव च तथाविधस्वरूपोल्लेख प्राधान्येन काव्यकाव्योपकरणकवीनां चित्रचित्रोपकरणचित्रकरैः साम्यं प्रथममेव प्रतिपादितम् । तदेवंविधं स्वभाव - प्राधान्येन रसप्राधान्येन च द्विप्रकारं सहजसौकुमार्यसरसं स्वरूपं वर्णनाविषयवस्तुनः शरीरमेवालंकार्यतामेवार्हति न पुनरलंकरण - त्वम् ।
"
तत्र स्वाभाविक पदार्थस्वरूपमलंकरणं यथा न भवति तथा प्रथममेव प्रतिपादितम् । इदानीं रसात्मनः प्रधानचेतन परिस्पन्दवर्ण्यमानवत्तेरलंकारकारान्तराभिमतामलंकारतां निराकरोति
अलंकारो न रसवत् परस्याप्रतिभासनात् । स्वरूपादतिरिक्तस्य शब्दार्थासङ्गतेरपि ॥। ११ ॥