SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ३.९] यथा वा तृतीयोन्मेषः मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ ३२ ॥ जडानां चापि भयसा -- जडानामचेतनानां सलिलतरुकुसुमसमयप्रभृतीनामेवंविधं स्वरूपं रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरं वर्णनीयतामवगाहते । यथा इदमसुलभ वस्तुप्रार्थं नादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातोन्मूलितापाण्डपत्ररुपवनसहकारैर्दशितेष्वङ्करेषु ।। ३३ ।। ― १३३ उद्भेदाभिमुखाङ्कराः कुरवकाः शैवालजालाकुलप्रान्तं भान्ति सरांसि फेनपटलैः सीमन्तिताः सिन्धवः । किंचास्मिन् समये कृशाङ्गि विलसत्कन्दर्पकोदण्डिकक्रीडाभाञ्जि भवन्ति सन्ततलताकीर्णान्यरण्यान्यपि ॥ ३४ ॥ एवं स्वाभाविकसुन्दरपरिस्पन्दनिबन्धनं पदार्थस्वरूपमभिधाय तदेवोपसंहरति शरीरमिदमर्थस्य रामणीयकनिर्भरम् । उपादेयतया ज्ञेयं कवीनां वर्णनास्पदम् ।। ९ । अर्थस्य वर्णनीयस्य वस्तुनः शरीरमिदम् उपादेयतया ज्ञेयं ग्राह्यत्वेन बोद्धव्यम् । कीदृशं सत् - रामणीयकनिर्भरम्, सौन्दर्यपरिपूर्णम्, औपहत्य रहितत्वेन तद्विदावर्जकमिति यावत् । कवी - नामेतदेव यस्माद्वर्णनास्पदमभिधाव्यापारगोचरम् । एवंविधस्यास्य स्वरूपशोभातिशय भ्राजिष्णोवि भूषणान्युपशोभान्तरमारभन्ते । एतदेव प्रकारान्तरेण विचारयति -
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy