________________
१३२ वक्रोक्तिजीवितम्
[३.८ ल्लेखोज्ज्वलम् । स्वा प्रत्येकमात्मीया सामान्यलक्षणवस्तुस्वरूपा या जातिस्तस्याः समुचितो यो हेवाक: स्वभावानुसारी परिस्पन्दस्तस्य समुल्लेखः सम्यगुल्लेखनं वास्तवेन रूपेणोपनिबन्धस्तेनोज्ज्वलं भ्राजिष्णु, तद्विदाह्लादकारीति यावत् । यथा
कदाचिदेतेन च पारियात्रगुहागृहे मीलितलोचनेन । व्यत्यस्तहस्तद्वितयोपविष्ट
दंष्ट्राङ्कुराञ्चच्चिबुकं प्रसुप्तम् ।। ३०॥ अत्र गिरिगुहागेहान्तरे निद्रामनुभवत: केसरिणः स्वजातिसमुचितं स्थानकमुल्लिखितम् । यथा वा
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्ट: शरपतनभयाद् भूयसा पूर्वकायम् । दभैरर्धावलीढः श्रमविवृतमुखभ्रंशिभिः कीर्णवा
पश्योदग्रप्लुत त्वाद्वियति बहुतरंस्तोकमुर्त्यां प्रयाति ॥३१॥ एतदेव प्रकारान्तरेणोन्मीलयतिरसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरम् ।
चेतनानाममुख्यानां जडानां चापि भूयसा ॥८॥ चेतनानां प्राणिनाममुख्यानामप्रधानभूतानां यत्स्वरूपं तदेवंविधं सत्, वर्णनीयता प्रतिपद्यते प्रस्तुताङ्गतयोपयुज्यमानम्। कीदृशम्रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरम् । रसाः शृङ्गारादयस्तेषामुद्दीपनमुल्लासनं परिपोषस्तस्मिन् सामर्थ्य शक्तिस्तया विनिबन्धनं निवेशस्तेन बन्धुरं हृदयहारि। यथा
चूताङ्करास्वादकषायकण्ठः पुस्कोकिलो यन्मधुरं चुकूज ।