SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ३.७] तृतीयोन्मेषः १३१ किं मे पार्श्वमुपैषि पुत्रक कृतैः किं चाटुभिः क्रूरया मात्रा त्वं परिवर्जितः सह मया यान्त्यातिदीर्घा भुवम् ॥२७॥ अत्र रसपरिपोषनिबन्धनविभावा दिसंपत्समुदयः कविना सुतरां समुज्जृम्भितः । तथा चास्यैव वाक्यस्यावतारकं विदूषकवाक्यमेवंविधं प्रयुक्तम् पमादो एसो क्खु देवीए पुत्तकिदको हरिणपोदो अत्तभवंतं अणुसरदि ॥२८॥ प्रमादः ! एष खलु देव्याः पुत्रकृतको हरिणपोतोऽत्रभवन्त मनुसरति ॥ इति छाया । एतेन करुणरसोद्दीपनविभावता हरिणपोतकधारागृहप्रभृतीनां सुतरां समुत्पद्यते। तथा च “अयमपरः क्षते क्षारावक्षेपः” इति रुमण्वद्वचनानन्तरमेतत्परत्वेनैव वाक्यान्तरमुपनिबद्धम्, यथा कर्णान्तस्थितपद्मरागकलिकां भयः समाकर्षता चञ्च्वा दाडिमबीजमित्यभिहता पादेन गण्डस्थली । यनासौ तव तस्य नर्मसुहृदः खेदान्मुहुः क्रन्दतो निःशङ्ख न शुकस्य किं प्रतिवचो देवि त्वया दीयते ॥२९॥ अत्र शुकस्यैवंविधदुर्ललितयुक्तत्वं वाल्लभ्यप्रतिपादनपरत्वेनोपात्तम् । 'असौ' इति कपोलस्थल्याः स्वानुभवस्वदमानसौकुमार्योत्कर्षपरामर्शः। एवंविधोद्दीपन विभावैकजीवितत्वेन करुणरसः काष्ठाधिरूढिरमणीयतामनीयत । ___ एवं विप्रलम्भशृङ्गारकरुणयोः सौकुमार्यादुदाहरणप्रदर्शनं विहितम् । रसान्तराणामपि स्वयमेवोत्प्रेक्षणीयम् । __एवं द्वितीयमप्रधानचेतनसिंहादिसंबन्धि यत्स्वरूपं तदित्थं कवीनां वर्णनास्पदं संपद्यते । कीदृशम्-स्वजात्युचितहेवाकसमु
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy