________________
[३.११
तृतीयोन्मेषः
करुणो रसः अङ्गं न पुनरर्ष्याविप्रलम्भशृङ्गारः, तस्याननुभूयमानत्वात् । तदयमत्र परमार्थः – कविप्रतिभापरिपोषितप्रकर्षगम्यमान - करुणरसोपबृंहित-सौन्दर्यधाराधिरूढो भगवत्प्रभावातिशय: कामपि सहृदयहृदयहारितां प्रतिपद्यते । न च शब्दवाच्यत्वं नाम समानं कामिशराग्नितेजसोः संभवतीति तावतैव तयोस्तथाविधविरुद्धधर्माध्यासादिविरुद्ध स्वभावयोरैक्यं कथंचिदपि व्यवस्थापयितुं पार्यते, परमेश्वरप्रयत्नेनापि स्वभावस्यान्यथाकर्तु - मशक्यत्वात् । न च तथाविधशब्दवाच्यतामात्रादेवं तद्विदां तदनुभवप्रतीतिरस्ति गुडखण्डादिशब्दाभिधानादपि प्रीतिविषादादेस्तदास्वादप्रसङ्गात् । तदनुभवप्रतीतौ सत्यां रसद्वयसमावेशदोषोऽप्यनिवार्यतामाचरति । रसद्वयसमावेशदोषोऽप्यत्र गुणप्रधानभावस्य प्र (योजक इति वक्तुं न पायेते) । यदि वा भगवत्प्रभावस्य मुख्यत्वे द्वयोरप्येतयोरङ्गत्वाद् भूषणत्वमित्युच्यते तदपि [न] समञ्जसम्। यस्मात् करुणस्य वास्तवत्वादेक एव स्यात् निर्मूलत्वादेव तयोर्भावाभावयोरिव न कथंचिदपि साम्योपपत्तिरित्यलमनुचितचर्वणचातुर्यचापलेन ।
:
यदि वा निदर्शनेऽस्मिन्ननाश्वसन्तः समाम्नातलक्षणोदाहरणसङ्गतिं सम्यक् समीहमानाः सविमर्षणा उदाहरणान्तरं रसवदलंकारस्य व्याचक्षते, यथा
कि हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥ ४४॥
१४१
-
((
'अत्र भवद्विनिहतवल्लभो वैरिविलासिनीसमूहः शोकावेशाद
[ शर]णः करुणरसकाष्ठाधिरूढिविहितमेवंविध वैशसमनुभवती" ति