________________
३.४]
ततीयोन्मपः
१२७
च्छित्तिविशेषितशोभातिशयस्य किमपि तद्विदाह्नादकारित्वमद्भिद्यते । यथा
__अस्याः सर्गविधौ ॥१८॥ इति । यथा
कि तारुण्यतरोः ।।१९।। इति । तदेवं पृथग्भावेनापि भवतोऽस्य कविकौशलायत्तवृनित्वलक्षणवाक्यवक्रतान्तर्भाव एव युक्तियुक्ततामवगाहते । तदिदमुक्तम्
बाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा ।
यत्रालंकारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ॥२०॥ स्वभावोदाहरणं यथा
तेषां गोपवधविलासमुहृदां राधारहःसाक्षिणां । क्षेमं भद्र कलिन्दगलतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना
ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ।।२१।। अत्र यद्यपि सहृदयसंवेद्यं वस्तुसंभवि स्वभावमात्रमेव वणितम्, तथाप्यनुत्तानतया व्यवस्थितस्यास्य विरलविदग्धहृदयकगोचरं किमपि नूतनोल्लेखमनोहारि पदार्थान्तीनवृत्ति सूक्ष्मसुभगं तादक स्वरूपमन्मीलितं येन वाक्यवक्रतात्मन: कविकौशलस्य काचिदेव काष्ठाधिरूढिरुपपद्यते । यस्मात्तद्वयतिरिक्तवृत्तिरर्थातिशयो न कश्चिल्लभ्यते । रसोदाहरणं यथा
लोको यादृशमाह साहसधनं तं क्षत्रियापुत्रकं स्यात्सत्येन स तादृगेव न भवेद्वार्ता विसंवादिनी ।