________________
[३.४.
१२६
वक्रोक्तिजीवितम व्यवस्थितानां रसस्वभावा लंकरणवक्रताप्रकाराणां नवनवोल्लेखविलक्षणं चेतनचमत्कारकारि किमपि स्वरूपान्तरमेतस्मादेव समुज्जृम्भते । येनेदम भिधीयते- .
आसंसारं कइपुंगवेहिं पडिदिअहगहिअसारो वि । अज्जवि अभिन्नमुद्दो व्व जअइ वा परिप्फंदो ॥१६॥ आसंसारं कविपुङ्गवैः प्रतिदिवसगृहीतसारोऽपि ।
अद्याप्यभिन्नमुद्र इव जयति वाचां परिस्पन्दः ।। इति छाया। अत्र सर्गरम्भात् प्रभृति कविप्रधानः प्रातिस्विकप्रतिभापरिस्पन्दमाहात्म्यात प्रतिदिवसगृहीतसर्वस्वोऽप्यद्यापि नवनवप्रतिभासानन्त्यविजृम्भणादनुद्घाटितप्राय इव यो वाक्यपरिस्पन्दः स जयति सर्वोत्कर्षेण वर्तते इत्येवमस्मिन् मुसङ्गतेऽपि वाक्यार्थे कविकौशलस्य विलसितं किमप्यलौकिकमेव परिस्फुरति । यस्मात् स्वाभिमानध्वनिप्राधान्येन तेनैतदभिहितम् यथा-आसंसारं कविपुङ्गवैः प्रतिदिवसं गृहीतसा रोऽप्यद्याप्यभिन्नमुद्र इवायम् । एवमपरिज्ञाततत्त्वतया न केनचित किमप्येतस्माद् गृहीतमिति मत्प्रतिभोद्घाटितपरमार्थस्येदानीमेव मुद्राबन्धोद्भेदो भविष्यतीति लोकोत्तरस्वपरिस्पन्दसाफल्यापत्तेर्वाक्यपरिस्पन्दो जयतीति संबन्धः।
यद्यपि रसस्वभावालंकाराणां सर्वेषां कविकौशलमेव जीवितम्, तथाप्यलंकारस्य विशेषतस्तदनग्रहं विना वर्णनाविषयवस्तुनो भूषणाभिधायित्वेनाभिमतस्य स्वरूपमात्रेण परिस्फुरतो यथार्थत्वेन निबध्यमानस्य तद्विदाह्लादनिधानानुपपत्तेर्मनाङ्मात्रमपि न वैचिव्यमुत्प्रेक्षामहे, प्रचुरप्रवाहपतितेतरपदार्थसामान्येन प्रतिभासनात् । यथा
दूर्वाकाण्डमिव श्यामा तन्वी श्यामालता यथा ॥ १७ ।। इत्यत्र नूतनोल्लेखमनोहारिणः पुनरेतस्य लोकोत्तरविन्यसनवि