________________
तृतीयोन्मेषः
१२५
दायस्यान्यदपूर्व व्यतिरिक्तमेव वक्रत्वं वक्रभावः । भवतीति संबन्ध:, क्रियान्तराभावात् । कुतः - मार्गस्थवक्रशब्दार्थगुणालंकारसंपदः । मार्गाः सुकुमारादयस्तत्रस्थाः केचिदेव वत्राः प्रसिद्धव्यवहारव्यतिरेकिणो ये शब्दार्थगुणालंकारास्तेषां संपत् काप्युपशोभा तस्याः पृथग्भूतं किमपि वक्रत्वान्तरमेव । कीदृशम् - तथाभिहितिजीवितम् । तथा तेन प्रकारेण केनाध्यव्यपदेश्येन याभिहितिः काव्यपूर्वैवाभिधा सैव जीवितं सर्वस्वं यस्य तत्तथोक्तम् । किंस्वरूपमित्याह - कर्तुः किमपि कौशलम् । कर्तु विधातुः किमप्यलौकिकं यत्कौशलं नैपुणं तदेव वाक्यस्य वक्रत्वमित्यर्थः । कथंचिद चित्रस्येव, आलेख्यस्य यथा, मनोहारि हृदयरञ्जकं प्रकृतोपकरणव्यतिरेकि कर्तरेव कौशलं किमपि पृथग्भूतं व्यतिरिक्तम् । कुत इत्याह- मनोज्ञफलकोल्लेखवर्णच्छायाश्रियः । मनोज्ञाः काश्चिदेव हृदयहारिण्यो याः फलकोल्लेखवर्णच्छायास्तासां श्रीरुपशोभा तस्याः । पृथग्रूपं किमपि तत्त्वान्तरमेवेत्यर्थः । फलकमा लेख्याधारभूता भित्तिः, उल्लेखश्चित्रसूत्रप्रमाणोपपन्नं रेखाविन्यसनमात्रम्, वर्णा रज्जकद्रव्यविशेषाः, छाया कान्तिः । तदिदमत्र तात्पर्यम् - यथा चित्रस्य किमपि फलकाद्युपकरणकलापव्यतिरेकि सकलप्रकृतपदार्थ जीवितायमानं चित्रकरकौशलं पृथक्त्वेन मुख्यतयोद्भासते, तथैव वाक्यस्य मार्गादिप्रकृतपदार्थ सार्थव्यतिरेकि कविकौशललक्षणं किमपि सहृदय हृदयसंवेद्यं सकलप्रस्तुतपदार्थस्फुरितभूतं वत्वमुज्जृम्भते । तथा च भावस्वभावसौकुमार्यवर्णने शृङ्गारादिरसस्वरूपसमुन्मीलने वा विविधविभूषणविन्यासविच्छित्तिविरचने च यः परः परिपोषातिशयस्तद्विदाह्लादकारितायाः कारणम् । पदवाक्यैकदेशवृत्तिर्वा य: कश्चिद्वताप्रकारस्तस्य कविकौशलमेव निबन्धनतया व्यवतिष्ठते । यस्मादाकल्पानामेव तावन्मात्रस्वरूपनियतनिष्ठतया
३.४]