________________
१२८
वक्रोक्तिजीवितम्
[३.५ एकां कामपि कालविषममी शौर्योष्मकण्डव्यय
व्यग्राः स्युश्चिरविस्मृतामरचमूडिम्बाहवा बाहवः ॥२२॥ अत्रोत्साहाभिधान: स्थायिभावः समुचितालम्बनविभावलक्षणविषयसौन्दर्यातिशयश्लाघाश्रद्धालुतया विजिगीषो_दग्ध्यभङ्गीभणितिवैचित्र्येण परां परिपोषपदवीमधिरोपितः सन् रसतां नीयमान: किमपि वाक्यवक्रभावस्वभावं कविकौशलमावेदयति । अन्येषां पूर्वप्रकरणोदाहरणानां प्रत्येकं तथाभिहितिजीवितलक्षणं वाक्य वक्रत्वं स्वयमेव सहृदयविचारणीयम् ।
वक्रतायाः प्रकाराणामौचित्यगुणशालिनाम् । एतदुत्तेजनायालं स्वस्पन्दमहतामपि ।। २३॥ रसस्वभावालंकारा आसंसारमपि स्थिताः ।
अनेन नवतां यान्ति तद्विदाह्लाददायिनीम् ।। २४ ।। इत्यन्तरश्लोको।
एवमभिधानाभिधेयाभिधालक्षणस्य काव्योपयोगिनस्त्रितयस्य स्वरूपमुल्लिख्य वर्णनीयस्य वस्तुनो विषयविभागं विदधाति
भावानामपरिम्लानस्वभावौचित्यसुन्दरम् ।
चेतनानां जडानां च स्वरूपं द्विविधं स्मृतम् ॥५॥ भावानां वर्ण्यमानवृत्तीनां स्वरूपं. परिस्पन्दः । कीदृशम्द्विविधम् । द्वे विधे प्रकारौ यस्य तत्तथोक्तम् । स्मृतं सूरिभिराम्नातम् । केषां भावानाम्-चेतनानां जडानां च । चेतनानां संविद्वतां प्राणिनामिति यावत्; जडानां तद्वयतिरेकिणां प्राणचैतन्यशन्यानाम् । एतदेव च मिद्वैविध्यं धर्मद्वैविध्यस्य निबन्धनम् । कीदृक्स्वरूपं-अपरिम्लानस्वभावौचित्यसुन्दरम् । अपरिम्लानः प्रत्यग्रपरिपोषपेशलो यः स्वभाव: पारमार्थिको धर्मस्तस्य यदौचित्यमुचितभाव: प्रस्तावोपयोग्यदोषदुष्टत्वं तेन सुन्दरं सुकु