________________
१२२
वक्रोक्निजीवितम्
[३.२ यामनोहारिणा वास्तवस्थितितिरोधानप्रवणेन निजावभासोद्भासितस्वरूपेण तत्कालोल्लिखित इव वर्णनीयपदार्थपरिस्पन्द महिमा प्रतिभासते, येन विधातृव्यपदेशपात्रतां प्रतिपद्यन्ते कवयः । तदिदमुक्तम्
अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ।।११।। सैषा सहजाहार्यभेदभिन्ना वर्णनीयस्य वस्तुनो द्विप्रकारा वक्रता। तदेवमाहार्या येयं सा प्रस्तुतविच्छित्तिविधाप्यलंकारव्यतिरेकेण नान्या काचिदुपपद्यते। तस्माद् बहुं विधतत्प्रकारप्रभेद द्वारेणात्यन्तविततव्यवहाराः परि दृश्यन्ते । यथा
अस्याः सर्गविधौ प्रजापतिरभच्चन्द्रो न कान्तद्युतिः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।। १२ ।। अत्र कान्तायाः किमपि कान्तिमत्त्वमसमविलास संपदां पदं च रसवत्त्वमसामान्यसौष्ठवं च सौकुमार्य प्रतिपादयितुं प्रत्येक तत्परिस्पन्दप्राधान्यसमुचितसंभावनानुमानमाहात्म्यात् पृथक् पृथगपूर्वमेव निर्माणमत्प्रेक्षितम् । तथा च कारणत्रितयस्याप्यतस्य सर्वेषां विशेषणानां स्वयम् इति संवध्यमानमेतदेव मुतरां समुद्दीपयनि । यः किल स्वयमेव कान्तद्युतिस्तस्य सौजन्यसमुचितादरोचकित्वात कान्तिमत्कार्यकरणकौशलमेवोपपन्नम् । यश्च स्वयमेव शृङ्गारैकरसस्तस्य रसिकन्वादेव रसवद्वस्तुविधानवैदग्ध्यमौचित्यं भजते । यश्च स्वयमेव पुष्पाकरस्तस्याभिजात्यादेव तथाविधः सुकुमार एव सर्गः ममचितः । तथा चोत्तरार्धे व्यतिरेकमखेन त्रयस्याप्येतस्य कान्तिमत्त्वादेविशेषणैरन्यथानुपपत्तिरुपपादिना ।