________________
तृतीयोन्मेष:
३.२]
१२३
यस्माद् वेदाभ्यासजडत्वात् कान्तिमद्वस्तुविधानानभिज्ञत्वम्, विषयव्यावृत्तकौतुकत्वाद् रसवत्पदार्थे विहितवैमुख्यम्, पुराणत्वात् सौकुमार्य सरस भावविरचनवैरस्यं प्रजापतेः प्रतीयते। तदेवमुत्प्रेक्षालक्षणोऽयमलंकारः कविना वर्णनीयस्य वस्तुनः कमप्यलौकिकोल्लेखविलक्षणमतिशयमाधातुं निबद्धः । स च स्वभावसौन्दर्यमहिम्ना स्वयमेव तत्सहायसंपदा महार्घ महनीयता मीहमानः सन्देहसंसंर्गमङ्गीकरोतीति तेनोपबृंहितः । तस्माल्लोकोत्तरनिर्मातृनिर्मितत्वं नाम नूतनः कोऽप्यतिशयः पदार्थस्य वर्ण्यमानवृत्तेर्नायिका स्वरूपसौन्दर्यलक्षणस्यात्र निर्मितः कविना, येन तदेव तत्प्रथममुत्पादितमिक प्रतिभाति ।
यत्राप्युत्पाद्यं वस्तु प्रबन्धार्थ वदपूर्वतया वाक्यार्थस्तत्काल मुल्लिख्यते कविभिः तस्मिन् स्वसत्तासमन्वयेन स्वयंमेव परिस्फुरतां पदार्थानां तथाविधपरस्परान्वयलक्षणसंबन्धोपनिबन्धनं नवीनमतिशय मात्रमेव निर्मितिविषयतां नीयते, न पुनः स्वरूपम् ।
नाम
यथा
कस्त्वं भो दिवि मालिकोऽहमिह किं पुष्पार्थमभ्यागतः किं तेनास्तु महान् ऋयो यदि महच्चित्रं तदाकर्ण्यताम् । संग्रामेष्वलभाभिधाननृपतौ दिव्याङ्गनाभिः स्रजः प्रोज्झन्तीभिरविद्यमान कुसुमं यस्मात्कृतं नन्दनम ।। १३ ।। तदेवंविधे विपये वर्णनीयवस्तुविशिष्टातिशयविधायी विभूषणविन्यासो विधेयतां प्रतिपद्यते । तथा च - प्रकृतमिदमुदाहरणमलंकरणकल्पनं विना सम्यङ् न कथंचिदपि वाक्यार्थसङ्गति भजते । यस्मात् प्रत्यक्षादिप्रमाणोपपत्तिनिश्चयाभावात् स्वाभाविकं वस्तु धर्मितया व्यवस्थापनं न सहते, तस्माद्विदग्धकविप्रतिभोल्लिखितालंकरणगोचरत्वेनैव सहृदयहृदयाह्लादमादधाति ।
-