SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ३.२] तृतीयोन्मेपः १२१ तद्विदाह्लादकारित्वविरहादनुपादेयत्वमेवेत्यलमतिप्रसङ्गेन । यदि वा प्रस्तुतौचित्यमाहात्म्यान्मुख्यतया भावस्वभावः सातिशयत्वेन वर्ण्यमानः स्वमहिम्ना भूषणान्तरासहिष्णुः स्वयमेव शोभातिगयशालित्वादलं कार्योऽप्यलंकरणमित्यभिधीयते तदयमास्माकीन एव पक्षः। तदतिरिक्तवृत्तेरलंकारान्तरस्य तिरस्कारतात्पर्येणाभिधानानात्र वयं विवदामहे । एवमेव वर्ण्यमानस्य वस्तुनो वक्रतेत्युतान्या काचिदस्तीत्याहअपरा सहजाहार्यकविकौशलशालिनी । निर्मितिर्नूतनोल्लेखलोकातिक्रान्तगोचरा ॥२॥ अपरा द्वितीया वर्ण्यमानवृत्तेः पदार्थस्य निर्मितिः सृष्टिः । वक्रतेति संबन्धः । कीदृशी-सहजाहार्यकविकौशलशालिनी । सहज स्वाभाविकमाहार्य शिक्षाभ्याससमल्लासितं च शक्तिव्युत्पत्तिपरिपाकप्रौढं यत् कविकौगलं नितिनैपुणं तेन शालते श्लाघ्यते या सा तथोक्ता । अन्यच्च कीदृशी-नतनोल्लेखलोकातिक्रान्तगोचरा । नूतनस्तत्प्रथमो योऽसावुल्लिख्यत इत्युल्लेखस्तत्कालमल्लिख्यमानातिशयः, तेन लोकातिक्रान्तः प्रसिद्धव्यापारातीतः कोऽपि सर्वातिशायी गोचरो विषयो यस्याः सा तथोक्तेति विग्रहः । निर्मिति स्तेन रूपेण विहितिरित्यर्थः । तदिदमत्र तात्पर्यम्यन्न वर्ण्यमानस्वरूपाः पदार्थाः कविभिर भताः सन्तः क्रियन्ते, केवलं सत्तामात्रेणैव परिस्फुरतां तेषां तथाविधः कोऽप्यतिशयः पुनराधीयते, येन कामपि सहृदयहृदयहारिणी रमणीयतामधिरोप्यन्ते । तदिदमुक्तम् लीनं वस्तुनि ॥ १० ॥ इत्यादि । तदेवं सत्तामात्रेणैव परिस्फुरतः पदार्थस्य कोश्यलौकिकः शोभातिशयविधायी विच्छित्तिविशेषोऽभिधीयते, येन नतनच्छा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy