SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ १२० वक्रोक्तिजीवितम् [३.१ यथा च सज्जेहि सुरहिमासो ण दाव अध्पेइ जुअइजणलक्खस हे । अहि असहआर मुहे नवपल्लवपत्तले अणंगस्स सरे ॥ ७ ॥ सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् । अभिनवसहकारमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ॥ इति छाया । एवंविधविषये स्वाभाविक सौकुमार्य प्राधान्येन वर्ण्यमानस्य वस्तुनस्तदाच्छादनभयादेव न भूयसा तत्कविभिरलंकरणमुपनिबध्यते । यदि वा कदाचिदुपनिबध्यते तत्तदेव स्वाभाविकं सौकुमार्यं सुतरां समुन्मीलयितुम्, न पुनरलंकारवैचित्र्योपपत्तये । यथा धौताञ्जने च नयने स्फटिकाच्छकान्तिगण्डस्थली विगतकृत्रिमरागमोष्ठम् । अङ्गानि दन्ति शिशुदन्तविनिर्मलानि किं यन्न सुन्दरमभूत्तरुणीजनस्य ॥ ८ ॥ अत्र "दन्तिशिशुदन्तविनिर्मलानि " इत्युपमया स्वाभाविकमेव सौन्दर्यमुन्मीलितम् । यथा वा अकठोरवारणवधूदन्ताङ्करस्पधिनः इति ॥ ९ ॥ एतदेवातीव युक्तियुक्तम् । यस्मान्महाकवीनां प्रस्तुतौचित्यानुरोधेन कदाचित् स्वाभाविकमेव सौन्दर्यमंकराज्येन विजृम्भयितुमभिप्रेतं भवति, कदाचिद् विविधरचनावैचित्र्ययुक्तमिति । अत्र पूर्वस्मिन् पक्षे, रूपकादेरलंकरणकलापस्य नात्यादृतत्वम् । अपरस्मिन् पुनः स एव सुतरां समुज्जृम्भते । तस्मादनेन न्यायेन सर्वातिशायिनः स्वाभाविकसौन्दर्यलक्षणस्य पदार्थ परिस्पन्दस्यालंकार्यत्वमेव युक्तियुक्ततामालम्बते न पुनरलंकरणत्वम् । सातिशयत्वशून्यधर्मयुक्तस्य वस्तुनो विभूषितस्यापि पिशाचादेरिव ,
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy