________________
३.१]
तृतीयोन्मेषः भावव्यभिचायौं चित्यव्यतिरेकेण प्रकारान्तरेण प्रतिपत्तिः प्रस्तुतशोभापरिहारकारितामावहति । तथा च प्रथमतरतरुणीतारुण्यावतारप्रभृतयः पदार्थाः सुकुमारवसन्तादिसमयसमुन्मेषपरिपोषपरिसमाप्तिप्रभृतयश्च स्वप्रतिपादकवाक्यवक्रताव्यतिरेकेण भूयसा न कस्यचिदलंकरणान्तरस्य कविभिरलंकरणीयतामुपनीयमानाः परिदृश्यन्ते । यथा
स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिस रसः । गतानामारम्भः किसलयितलीलापरिमल:
स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥२।। यथा वा ___ अव्युत्पन्नमनोभवा मधुरिमस्पर्शोल्लसन्मानसा भिन्नान्तःकरणं दृशौ मकुलयन्त्याघ्रातभूतोद्भमाः । रागेच्छां न समापयन्ति मनसः खेदं विनवालसा
वृत्तान्तं न विदन्ति यान्ति च वशं कन्या मनोजन्मनः ।।३।। यथा च
दोर्मूलावधि इति ।। ४ ।। यथा वा
गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्करं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्ण दिवसेंद्विवैमनोजन्मनो
देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ।। ५ ।। यथा वा
हंसानां निनदेषु इति ।। ६ ।।