________________
११८ वक्रोक्तिजीवितम्
[३.१ मलंकारः प्रतिभासते । तेन स्वभावोक्तेरलंकारत्वमेव यक्तियक्तमिति ये मन्यन्ते तान् प्रति समाधीयते --- तदेत नातिचतुरस्रम् । यस्मादगतिकगतिन्यायन काव्यकरणं न यथाकथंचिदनप्ठेयतामर्हति, तद्विदाह्लादकारिकाव्यलक्षणप्रस्तावात् । किंच--अनकृष्टधर्मयुक्तस्य वर्णनीयस्यालंकरणमप्यसमुचितभित्तिभागोल्लिखितालेख्यवन्न शोभातिशयकारितामावहति । यस्मादत्यन्तरमणीयस्वाभाविकधर्मयुक्तं वर्णनीयवस्तु परिग्रहणीयम्। तथाविधस्य तस्य यथायोगमौचित्यानुसारेण रूपकाद्यलंकारयोजनया भवितव्यम् । एतावास्तु विशेषो यत् स्वाभाविकमाकुमार्यप्राधान्येन विवक्षितस्य न भयसा रूपकाद्यलंकार उपकाराय कल्पते , वस्तुस्वभावसौकुमार्यस्य रसादिपरिपोपणस्य वा समाच्छादनप्रसङ्गात् । तथा चैतस्मिन् विषये सर्वाकारमलंकार्य विलामवतीव स्नानसमय - विरहवतपरिग्रह - सुरतावसानादौ नात्यन्तमलंकरणमहतां प्रतिपद्यते, स्वाभाविकसौकुमार्यस्यैव रसिकहृदयाह्लादकारित्वात् । यथा
तां प्राङ्मुखों तत्र निवेश्य तन्वी क्षणं व्यलम्बन्त पुरो निषण्णा: । भतार्थशोभाह्रियमाणनेत्राः
प्रसाधने संनिहितेऽपि नार्य ।।१।। अत्र तथाविधस्वाभाविकसौकुमार्यमनोहरः शोभातिशयः कवेः प्रतिपादयितुमभिप्रेतः । अस्या अलंकरणकलापकलनं सहजच्छायातिरोधानशङ्कास्पदत्वेन संभावितम्। यस्मात् स्वाभाविकसौकुमार्यप्राधान्येन वर्ण्यमानस्योदारस्वपरिस्पन्दमहिम्नः सहजच्छायातिरोधानविधायि प्रतीत्यन्तरापेक्षमलकरणकल्पनं नोपकारितां प्रतिपद्यते । विशेषतस्तु-रसपरिपोषपेगलायाः प्रतीतेविभावानु