________________
तृतीयोन्मेषः. एवं पूर्वस्मिन् प्रकरणे वाक्यावयवानां पदानां यथासंभव वक्रभावं विचारयन् वाचकवक्रताविच्छित्तिप्रकाराणां दिकप्रदर्शनं विहितवान् । इदानीं वाक्यवक्रतावैचित्र्यमासूत्रयितुं वाच्यस्य वर्णनीयतया प्रस्तावाधिकृतस्य वस्तुनो वक्रतास्वरूपं निरूपयति, पदार्थावबोधपूर्वकत्वाद् वाक्यार्थावसिते:--
उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम् ।
वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रता ॥१॥ वस्तुनो वर्णनीयतया प्रस्तावितस्य पदार्थस्य, यदेवंविधत्वेन वर्णनं सा तस्य वक्रता वक्रत्वविच्छित्ति: । किविधत्वेनेत्याहउदारस्वपरिस्पन्दसुन्दरत्वेन । उदार: सोत्कर्षः सर्वातिशायी य: स्वपरिस्पन्द: स्वभावमहिमा तस्य सुन्दरत्वं सौकुमार्यातिशयस्तेन, अत्यन्तरमणीयस्वाभाविकधर्मयुक्तत्वेन । वर्णनं प्रतिपादनम् । कथम-वक्रशब्दैकगोचरत्वेन । वक्रो योऽसौ नानाविधवक्रताविशिष्टः शब्दः कश्चिदेव वाचकविशेषो विवक्षितार्थसमर्पण समर्थस्तस्यैवैकस्य केवलस्य गोचरत्वेन प्रतिपाद्यतया विषयत्वेन । वाच्यत्वेनेति नोक्तम्, व्यङ्गयत्वेनापि प्रतिपादनसंभवात् । तदिदमक्तं भवति–यदेवंविधे भावस्वभावसौकुमार्यवर्णनप्रस्तावे भयसां न वाच्यालंकाराणामुपमादीनामुपयोगयोग्यता संभवति, स्वभावसौकुमार्यातिशयम्लानताप्रसङ्गात् ।
ननु च सैषा सहृदयाह्लादकारिणी स्वभावोक्तिरलंकारतया समाम्नाता, तस्मात् किं तद्दषणदुर्व्यसनप्रयासेन ? यतस्तेषां सामान्यवस्तुधर्ममात्रमलंकार्यम्, सातिशयस्वभावसौन्दर्यपरिपोषण