________________
११६
वक्रोक्तिजीवितम्
[२.३५ । वागेव वल्ली वाणीलता तस्याः काप्यलौकिकी विच्छित्तिर्जुस्भते शोभा समल्लसति। कथम्-पदपल्लवास्पदतया। पदान्येव पल्लवानि सुपतिङन्तान्येव पत्राणि तदास्पदतया तदाश्रयत्वेन । कीदृशी विच्छित्तिः– सरसत्वसंपदुचिता, रसवत्त्वातिशयोपपन्ना । किंविशिष्टा च-- वक्रतया वक्रभावेनोद्भासते भ्राजते या सा तथोक्ता। कीदशी-उज्ज्वला, छायातिशयरमणीया। तामेवंविधामालोच्य विचार्य विदग्धषट्पदगणैर्विबुधषट्चरणचक्रर्मधु पीयतां मकरन्द आस्वाद्यताम् । कीदृशम् - वाक्यप्रसूनाश्रयम् । वाक्यान्येव पदसमुदायरूपाणि प्रसूनानि पुष्पाण्याश्रयः स्थानं यस्य तत्तथोक्तम् । अन्यच्च कीदृशम्-स्फारामोदमनोहरम् । स्फारः स्फीतो योऽसावामोदस्तद्धर्मविशेषस्तेन मनोहरं हृदयहारि । कथमास्वाद्यताम्-नवोत्कण्ठाकुलं नतनोत्कलिकाव्यग्रम् । मधुकरसमूहाः खलु वल्ल्याः प्रथमोल्लसितपल्लवोल्लेखमालोच्य प्रतीतचेतसः समनन्तरोद्भिन्नवस्तु सुकुमारकुसुममकरन्दपानमहोत्सवमनुभवन्ति । तद्वदेव सहृदयाः पदास्पदं कामपि वकताविच्छित्तिमालोच्य नवोत्कलिकाकलितचेतसो वाक्याश्रयं किमपि वकताजीवितसर्वस्वं विचारयन्त्विति तात्पर्यार्थः । अत्रकत्र सरसत्वं स्वसमयसंभवि रसात्वम् , अन्यत्र शृङ्गारादिव्यञ्जकत्वम् । वक्रतैकत्र बालेन्दुसुन्दरसंस्थानयुक्तत्वम्, इतरत्र रूढयादि वैचित्र्यम् । विच्छित्तिरेकत्र सुविभक्तपत्रत्वम्, अन्यत्र कविकौशलकमनीयता। उज्ज्वलत्वमेकत्र पर्णच्छायातिशय युक्तत्वम् अपरत्र संनिवेशसौन्दर्यसमुदयः । आमोद: पुष्पेषु सौरभम्, वाक्येषु तद्विदाह्लादकारिता। मधु कुसुमेषु मकरन्दः, वाक्येषु सकलकाव्यकारणकलाप संपत्समुदय इति ।
इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे
द्वितीय उन्मेषः ।