________________
२.३४-३५]
द्वितीयोन्मेष:
११५
यद्येवमेकस्यापि वक्रताप्रकारस्य यदेवंविधो महिमा, तदेते बहवः संपतिताः सन्तः किं संपादयन्तीत्याह--
परस्परस्य शोभायै बहवः पतिताः क्वचित् ।
प्रकारा जनयन्त्येतां चित्रच्छायामनोहराम् ॥ ३४॥ क्वचिदेकस्मिन् पदमात्रे वाक्ये वा वकताप्रकारा वकत्वप्रभेदा बहवः प्रभताः पतिताः कविप्रतिभामाहात्म्यसमल्लसिताः । किमर्थम् --परस्परस्य शोभाय, अन्योन्यस्य विच्छित्तये । एतामेव चित्रच्छायामनोहरामनेकाकारकान्तिरमणीयां वक्रतां जनयन्त्यत्पादयन्ति । यथा
. तरन्तीव इति ।। ११३॥ अत्र क्रियापदानां त्रयाणामपि प्रत्येक त्रिप्रकारं वैचित्र्यं परिस्फुरति-क्रियावैचित्र्यं कारकवैचित्र्यं कालवैचित्र्यं च । प्रथिमस्तन-जघन-तरुणिम्नां त्रयाणामपि वृत्तिवैचित्र्यम् । लावण्यजलधि-प्रागल्भ्य - सरलता - परिचय - शब्दानामुपचारवैचित्र्यम् । तदेवमेते बहवो वक्रताप्रकारा एकस्मिन् पदे वाक्ये वा संपतिताश्चित्रच्छायामनोहरामेतामेव चेतनचमत्कारकारिणों वाक्यवक्रतामावहन्ति ।
एवं नामाख्यातोपसर्गनिपातलक्षणस्य चतुर्विधस्यापि पदस्य यथासंभवं वक्रताप्रकारान् विचार्येदानी प्रकरणमुपसंहृत्यान्यदवतारयति
वाग्वल्ल्याः पदपल्लवास्पदतया या वक्रतोद्भासिनी विच्छित्तिः सरसत्वसंपदुचिता काप्युज्ज्वला जृम्भते । तामालोच्य विदग्धषट्पदगणैर्वाक्यप्रसूनाश्रयं स्फारामोदमनोहरं मधु नवोत्कण्ठाकुलं पीयताम् ॥३५॥