________________
[२.३३
११४
वक्रोक्तिजीवितम् अत्र द्वयोः परस्परं सुदुःसहत्वोद्दीपनसामर्थ्यसमेतयोः प्रियाविरहवर्षाकालयोस्तुल्यकालत्वप्रतिपादनपरं 'च'-शब्दद्वितयं समसमयसमुल्लसितवह्निदाहदक्षदक्षिणवातव्यजनसमानतां समर्थयत् कामपि वाक्यवक्रतां स मुद्दीपयति । 'सु'-'दु:'-शब्दाभ्यां च प्रियाविरहस्याशक्यप्रतीकारता प्रतीयते । यथा च
मुहुरङ्गलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः
कथमप्युन्नमितं न चुम्बितं तु ॥ ११० ॥ अत्र नायकस्य प्रथमाभिलाषविवशवृत्तेरन भवस्मृतिसमुस्लिखिततत्कालसमुचिततद्वदनेन्दुसौन्दर्यस्य पूर्वमपरिचुम्बन स्खलितसमुद्दीपितपश्चात्तापदशावेश द्योतनपरः 'तु'-शब्द: कामपि वाक्यवकता. मुत्तेजयति ।
एतदुत्तरत्र प्रत्ययवकत्वमेवंविधप्रत्ययान्तरवकभावान्तर्भतत्वात् पृथक्त्वेन नोक्तमिति स्वयमेवोत्प्रेक्षणीयम् । यथा
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १११।। अत्र ‘अतितराम्' इत्यतीव चमत्कारकारि । एवमन्येषामपि सजातीयलक्षणद्वारेण लक्षणनिष्पत्तिः स्वयमनुसर्तव्या। तदेवमियमनेकाकारा वक्रत्वविच्छित्तिश्चतुर्विधपदविषया वावयैकदेशजीवितत्वेनापि परिस्फुरन्ती सकलवाक्यवैचित्र्यनिबन्धनतामुपयाति ।
वक्रतायाः प्रकाराणामेकोऽपि कविकर्मणः ।
तद्विदाह्लादकारित्वहेतुतां प्रतिपद्यते ।। ११२।। इत्यन्तरश्लोकः ।