________________
२.३३] द्वितीयोन्मेषः
११३ द्वारेण यथासंभवं वक्रभावं विचार्येदानीमुपसर्गनिपातयोरव्युत्पन्नत्वादसंभवद्विभक्तिकत्वाच्च निरस्तावयवत्वे सत्यविभक्तयोः साकल्येन वक्रतां विचारयति
रसादिद्योतनं यस्यामुपसर्गनिपातयोः ।
वाक्येकजीवितत्वेन सापरा पदवक्रता ॥३३॥ सापरा पदवकता-सा समर्पितस्वरूपापरा पूर्वोक्तव्यतिरिक्ता पदवकत्वविच्छित्ति: । अस्तीति संबन्ध: । कीदृशी-यस्यां वक्रतायामुपसर्गनिपातयोवॅयाकरणप्रसिद्धाभिधानयोः रसादिद्योतनं शृङ्गारप्रभृतिप्रकाशनम् । कथम्-वाक्यैकजीवितत्वेन । वाक्यस्य श्लोकादेरेकजीवितं वाक्यैकजीवितं तस्य भावस्तत्त्वं तेन । तदिदमुक्तं भवति-यद्वाक्यस्यैकस्फुरितभावेन परिस्फुरति यो रसादिस्तत्प्रकाशनेनेत्यर्थः । यथा ___वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।। १०८॥ अत्र रघुपतेस्तत्कालज्वलितोद्दीपनविभावसंपत्समुल्लासितः संभ्रमो निश्चितजनितजानकी विपत्तिसंभावनस्तत्परित्राणकरणोत्साहकारणतां प्रतिपद्यमानस्तदेकाग्रतोल्लिखितसाक्षात्कारस्तदाकारतया विस्मृतविप्रकर्षः प्रत्यग्ररसपरिस्पन्दसुन्दरो निपातपरंपराप्रतिपाद्यमानवृत्तिक्यैिकजीवितत्वेन प्रतिभासमानः कामपि वाक्य वक्रतां समुन्मीलयति । तु-शब्दस्य च वक्रभाव: पूर्वमेव व्याख्यातः । यथा वा
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिभवितव्यं च निरातपत्वरम्यैः ।।१०९।।