________________
वक्राक्तिजीवितम
[२.३०
वचनान्तरं यत्र प्रयुज्यते, भिन्नवचनयोर्वा यत्र सामानाधिकरण्यं विधीयते । यथा
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निश्वासरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति बाप्पः स्तनतटी
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ।। १०१।। अत्र 'न त्वहम्' इति वक्तव्ये, 'न तु वयम्' इत्यनन्तरङ्गत्वप्रतिपादनार्थं ताटस्थ्यप्रतीतये बहुवचनं प्रयुक्तम् । यथा वा
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥१०२॥ अत्रापि पूर्ववदेव ताटस्थ्यप्रतीतिः । यथा वा
फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः ॥ १०३ ।। अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यलक्षणः संख्याविपर्यास: सहृदयहृदयहारितामावहति । यथा वा
__शास्त्राणि चक्षुर्नवम् इति ।। १०४।। अत्र पूर्ववदेवैकवचनबहुवचनयोः सामानाधिकरण्यं वैचित्र्यविधायि।
एवं संख्यावत्रतां विचार्य तद्विपयत्वात् पुरुषाणां क्रमसमर्पितावसरां पुरुषवक्रतां विचारयति
प्रत्यक्ता परभावश्च विपर्यासेन योज्यते ।
यत्र विच्छित्तये सैषा ज्ञेया पुरुषवक्रता ॥३०॥ यत्र यस्यां प्रत्यक्ता निजात्मभाव: परभावश्च अन्यत्वमभयमप्येतद्विपर्यासेन योज्यते विपरिवर्तनेन निबध्यते । किमर्थम्विच्छित्तये वैचित्र्याय । सैषा वर्णितस्वरूपा ज्ञेया ज्ञातव्या पुरुषवक्रता पुरुषवकत्वविच्छित्तिः। तदयमत्रार्थ:- यदन्यस्मिन्नुत्तमे