SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ २.३१] द्वितीयोन्मेपः १११ मध्यमे वा पुरुषे प्रयोक्तव्ये वैचित्र्यायान्य: कदाचित् प्रथम: प्रयुज्यते । तस्माच्च पुरुषैकयोगक्षेमत्वादस्मदादेः प्रातिपदिकमात्रस्य च विपर्यास: पर्यवस्यति । यथा कौशाम्बी परिभय न: कृपणकैर्विद्वेषिभिः स्वीकृतां जानाम्येव तथा प्रमादपरतां पत्युनं यद्वेषिणः । स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे वक्तुं नोत्सहते मनः परमतो जानातु देवी स्वयम् ॥१०५।। अत्र ‘जानातु देवी स्वयम्' इति युष्मदि मध्यमपुरुषे प्रयोक्तव्ये प्रातिपदिकमात्रप्रयोगेण वक्तुस्तदशक्यानुष्ठानतां मन्यमानस्यौदासीन्यप्रतीतिः । तस्याश्च प्रभुत्वात् स्वातन्त्र्येण हिताहितविचारपूर्वकं स्वयमेव कर्तव्यार्थप्रतिपत्ति: कमपि वाक्यवक्रभावमावहति । यस्मादेतदेवास्य वाक्यस्य जीवितत्वेन परिस्फुरति । एवं पुरुषवक्रतां विचार्य पुरुषाश्रयत्वादात्मनेपदपरस्मैपदयोरुचितावसरां वक्रतां विचारयति । धातूनां लक्षणानुसारेण नियतपदाश्रयः प्रयोग: पूर्वाचार्याणाम् ‘उपग्रह'-शब्दाभिधेयतया प्रसिद्धः । तस्मात्तदभिधानेनैव व्यवहरति-- पदयोरुभयोरेकमौचित्याद् विनियुज्यते । शोभायै यत्र जल्पन्ति तामुपग्रहवक्रताम् ॥३१॥ तामुक्तस्वरूपामुपग्रहवक्रतामुपग्रहवक्रत्वविच्छित्ति जल्पन्ति कवयः कथयन्ति । कीदृशी-यत्र यस्यां पदयोरुभयोर्मध्यादेकमात्मनेपदं परस्मैपदं वा विनियुज्यते विनिबध्यते नियमेन । कस्मात्कारणात् -औचित्यात् । वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्मात्, तं समाश्रित्येत्यर्थः । किमर्थम् --शोभायै विच्छित्तये। यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy