SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ २.२९] द्वितीयोन्मेषः १०९ णाद्यत्र कारकविपर्यासश्चमत्कारकारी संपद्यते । यथा याञ्चां दैन्यपरिग्रहप्रणयिनी नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः । सर्व तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः पाणिः संप्रति मे हठात् किमपरं स्प्रष्टुं धनुर्धावति ।।१७।। अत्र पाणिना धनुर्ग्रहीतुमिच्छामीति वक्तव्ये पाणेः करणभतस्य कर्तृत्वाध्यारोपः कामपि कारकवकतां प्रतिपद्यते । यथा वा __ स्तनद्वन्द्वम् इत्यादौ ॥९८॥ यथा वा निष्पर्यायनिवेशपेशलरसरन्योन्यनिर्भर्सिभिहस्तायुगपन्निपत्य दशभिर्वामधूतं कार्मुकम् । सव्यानां पुनरप्रथीयसि विधावस्मिन् गुणारोपणे मत्सेवाविदुषामहंप्रथमिका काप्यम्बरे वर्तते ॥९९॥ अत्र पूर्ववदेव कर्तृत्वाध्यारोपनिबन्धनं कारकवक्रत्वम् । यथा वा बद्धस्पर्द्ध इति ।। १००॥ एवं कारकवकतां विचार्य क्रमसमन्वितां संख्यावक्रतां विचारयति, तत्परिच्छेदकत्वात् संख्यायाः कुर्वन्ति काव्यवैचित्र्यविवक्षापरतन्त्रिताः । यत्र संख्याविपर्यासं तां संख्यावक्रतां विदुः ॥२९॥ . यत्र यस्यां कवयः काव्यवैचित्र्यविवक्षापरतन्त्रिताः स्वकर्मविचित्रभावाभिधित्सापरवशाः संख्याविपर्यासं वचनविपरिवर्तन कुर्वन्ति विदधते तां संख्यावक्रतां विदुः तद्वचनवक्रत्वं जानन्ति तद्विदः। तदयमत्रार्थः- यदेकवचने द्विवचने प्रयोक्तव्ये वैचित्र्यार्थं
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy