________________
[२.२७.२८
१०८
वक्रोक्तिजीवितम्
सार्थ समुन्मेषसमुद्दीपित सहजविभवविलसितत्वेन मकरकेतोर्मनाङमात्र माधव सामर्थ्यं समुल्लसिता तुला क्तेः सरसहृदयविधुरताविधायी कोऽपि संरम्भः समज्जृम्भते । तस्मादनेनानुमानेन पुनः परं परिपोष मधिरोहति । कुसुमाकरविभवविभ्र मे मानिनीमानदलनदुर्ललितसमुदितसहज सौकुमार्य संपत्संजनितसमचितजिगीषावसरः किमसौ विधास्यतीति विकल्पयन्तस्तत्कुसुमशरनिकरनिपातकातरान्तःकरणाः किमपि कम्पामहे चकितचेतसः संपद्यामह इति प्रियतमाविरहविधुरचेतसः सरसहृदयस्य कस्यचिदेतदभिधानम् । एवं कालवतां विचार्य क्रमसमुचितावसरां कारकवकतां विचारयति -
3
यत्र कारकसामान्यं प्राधान्येन निबध्यते । तत्त्वाध्यारोपणान्मुख्यगुणभावाभिधानतः ।। २७ ॥ परिपोषयितुं कांचिद् भङ्गीभणितिरम्यताम् । कारकाणां विपर्यासः सोक्ता कारकवक्रता ॥ २८ ॥
सोक्ता कारकत्रकता सा कारकवकत्वविच्छित्तिरभिहिता ! कीदृशी -- यत्र यस्यां कारकाणां विपर्यासः साधनानां विपरिवर्तनम्, गौणमुख्ययोरितरेतरत्वापत्तिः । कथम् - यत् कारकसामान्य मुख्यापेक्षया करणादि तत् प्राधान्येन निबध्यते मुख्यभावेन प्रयुज्यते । कया युक्त्या तत्त्वाध्यारोपणात् । तदिति मुख्यपरामर्शः, तस्य भावस्तत्त्वं तदध्यारोपणात् मुख्यभावसमर्पणात् । तदेवं मुख्यस्य का व्यवस्थेत्याह- मुख्यगुणभावाभिधानतः । मुख्यस्य यो गुणभावस्तदभिधानादमुख्यत्वेनोपनिबन्धादित्यर्थः । किमर्थम् - परिपोषयितुं कांचिद् भङ्गीभणितिरम्यताम् । कांचि - दपूर्वां विच्छित्युक्तिरमणीयतामुल्लासयितुम् । तदेवमचेतनस्यापि चेतनसंभविस्वातन्त्र्यसमर्पणादमुख्यस्य करणादेर्वा कर्तृत्वाध्यारोप