________________
द्वितीयोन्मेषः
२.२६]
१०७ एषा प्रक्रान्तस्वरूपा भवत्यस्ति कालवैचित्र्यवऋता। कालो वैयाकरणादिप्रसिद्धो वर्तमानादिलंट्प्रभृतिप्रत्ययवाच्यो यः पदार्थानामदयतिरोधानविधायी, तस्य वैचित्र्यं विचित्रभावस्तथाविधत्वेनोपनिबन्धस्तेन वक्रता वक्रत्वविच्छित्तिः । कीदृशी-यत्र यस्यां समयः कालाख्यो रमणीयतां याति रामणीयकं गच्छति । केन हेतुना-औचित्यान्तरतम्येन । प्रस्तुतत्वात्प्रस्तावाधिकृतस्य वस्तुनो यदौचित्यमुचितभावस्तस्यान्तरतम्येनान्तरङ्गरवेन, तदतिशयोत्पादकत्वेनेत्यर्थः । यथा
समविसमणिव्विसेसा समंतओ मंदमंदसंचारा । अइरा होहिंति पहा मणोरहाणं पि दुल्लंघा ।।९५ ।। समविषमनिविशेषाः समन्ततो मन्दमन्दसञ्चाराः । अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लक्याः ।।
इति छाया । अत्र वल्लभाविरहवैधुर्यकातरान्तःकरणेन भाविनः समयस्य संभावनानुमानमाहात्म्यमुत्प्रेक्ष्य उद्दीपनविभावत्वविभवविलसितं तत्परिस्पन्दसौन्दर्यसन्दर्शनासहिष्णुना किमपि भयविसंष्ठलत्वमनभय शङ्काकुलत्वेन केनचिदेतदभिधीयते - यदचिराद् भविष्यन्ति पन्थानो मनोरथानामप्यलङ्घनीया इति भविष्यत्कालाभिधायी प्रत्ययः कामपि परार्धवक्रतां विकासयति । यथा वा
यावत्किंचिदपूर्वमान्मनसामावेदयन्तो नवाः सौभाग्यातिशयस्य कामपि दशां गन्तुं व्यवस्यन्त्यमी । भावास्तावदनन्यजस्य विधुरः कोऽप्युद्यमो जृम्भते
पर्याप्त मधुविभ्रमे तु किमयं कर्तेति कम्पामहे ॥९६ ।। अत्र व्यवस्यन्ति जृम्भते कर्ता कम्पामहे चेति प्रत्ययाः प्रत्येक प्रतिनियतकालाभिधायिनः कामपि पदपरार्धवक्रतां प्रख्यापयन्ति । तथा च-प्रथमतरावेतीर्णमधुसमयसौकुमार्यसमुल्लसितसुन्दरपदार्थ