________________
१०६
वक्रोक्तिजीवितम्
[२.२६ नेत्रान्तरे मधुरमर्पयतीव किंचित् कर्णान्तिके कथयतीव किमप्यपूर्वम् । अन्तः समल्लिखति किचिदिवासिताक्ष्या
रागालसे मनसि रम्यपदार्थलक्ष्मीः ।। ९२॥ अत्र तदनुभवैकगोचरत्वादनाख्येयत्वेन किमपि सातिशयं प्रतिपदं कर्म संपादयन्त्यः क्रियाः स्वात्मनि कमपि वक्रभावमद्भावयन्ति । उपचारमनोज्ञताप्यत्र विद्यते । यस्मादर्पणकथनोल्लेखनान्यपचारनिबन्धनान्येव चेतनपदार्थधर्मत्वात् । यथा च
नृत्तारम्भाद्विरतरभसस्तिष्ठ तावन्मुहूर्त यावन्मौलौ श्लथमचलतां भूषणं ते नयामि । इत्याख्याय प्रणयमधुरं कान्तया योज्यमाने
चूडा चन्द्रे जयति सुखिनः कोऽपि शर्वस्य गर्वः ॥९३॥ अत्र ‘कोऽपि' इत्यनेन सर्वनामपदेन तदनुभवैकगोचरत्वादव्यपदेश्यत्वेन सातिशयः शर्वस्य गर्व इति कर्तृसंवृतिः । जयति सर्वोत्कर्षेण वर्तते इति क्रियावैचित्र्यनिबन्धनम् ।
इत्ययं पदपूर्वार्धवक्रभावो व्यवस्थितः ।
दिङमात्रमेवमेतस्य शिष्टं लक्ष्य निरूप्यते ॥९४।। इति संग्रहश्लोकः ।
तदेवं सुप्तिङन्तयोर्द्वयोरपि पदपूर्वार्धस्य प्रातिपदिकस्य धातोश्च यथायुक्ति वक्रतां विचार्येदानी तयोरेव यथास्वमपरार्धस्य प्रत्ययलक्षणस्य वक्रतां विचारयति । तत्र क्रियावैचित्र्यवक्तायाः समनन्तरसंभविनः क्रमसमन्वितत्वात् कालस्य वकत्वं पर्यालोच्यते , क्रियापरिच्छेदकत्वात्तस्य ।
औचित्यान्तरतम्येन समयो रमणीयताम् । याति यत्र भवत्येषा कालवैचित्र्यवक्रता ॥२६॥