SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ २.२६] द्वितीयोन्मेषः १०५ सादयितु व्यवस्यन्तीवति चेतनपदार्थसंभविसादृश्योपचारात्तारुण्यतरलतरुणीगात्राणां तरणमुत्प्रेक्षितम् । उत्प्रेक्षायाश्चोपचार एव भयसा जीवितत्वेन परिस्फुरतीत्युत्प्रेक्षावसर एव विचारयिष्यते । प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च (इति)-अत्र स्तनजघनं कर्तृ प्रथिम्नः प्रागल्भ्यं महत्त्वस्य प्रौढिमुन्मद्रयत्युन्मीलयति । यथा कश्चिच्चेतनः किमपि रक्षणीयं वस्तु मुद्रयित्वा कमपि समयमवस्थाप्य समुचितोपयोगावसरे स्वयमुन्मुद्रयत्युद्धाटयति, तदेवं तत्कारित्वसाम्यात् स्तनजघनस्योन्मुद्रणमुपचरितम् । तदिदमुक्तं भवति यत् तदेव शैशवदशायां शक्त्यात्मना निमीलितस्वरूपम वस्थितमासीत, तस्य प्रथिम्नः प्रागल्भ्यस्य प्रथमतरतारुण्यावतारावसरसमुचितं प्रथनप्रसरं समर्पयति । दशोर्लीला रम्भाः स्फुटमपवदन्त सरलताम् (इति)-- अत्र शैशवप्रतिष्ठितां स्पष्टतां प्रकटमेवापसार्य दशोविलासोल्लासाः कमपि नवयौवनसमुचितं विभ्रममधिरोपयन्ति । यथा केचिच्चेतनाः कुत्रचिद्विषये कमपि व्यवहारं समासादितप्रसरमपसार्य किमपि स्वाभिप्रायाभिमतं परिस्पन्दा-तरं प्रतिष्ठापयन्तीति तत्कारित्वसादृश्याल्लीलावतीलोचनविलासोल्लासानां सरलत्वापवदनमुपचरितम् । तदेवंविधेनोपचारेणतास्तिस्रोऽपि वक्रताप्रकाराः प्रतिपदं संभवन्तीत्यवसरान्तरे विचार्यन्ते । इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरम्-कर्मादिसवतिः । कर्मप्रभतीनां कारकाणां संवृतिः संवरणम्, प्रस्तुतौचित्यानुसारेण सातिशयप्रतीतये समाच्छाद्याभिधा । सा च क्रियावैचित्र्यकारि. त्वात् प्रकारत्वेनाभिधीयते । कारणे कार्योपचाराद् यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy