________________
१००
वक्रोक्तिजीवितम्
[२.२३ अत्र त्रिलिङ्गत्वे सत्यपि 'तट'-शब्दस्य, सौकुमार्यात् स्त्रीलिङ्गमेव प्रयुक्तम् । तेन विच्छिन्त्यन्तरेण भावी नायकव्यवहारः कश्चिदासूत्रित इत्यतीव रमणीयत्वाद्वक्रतामावहति ।। इदमपरमेतस्याः प्रकारान्तरं लक्षयतिविशिष्टं योज्यते लिङ्गमन्यस्मिन् संभवत्यपि ।
यत्र विछित्तये सान्या वाच्यौचित्यानुसारतः ॥२३॥ सा चोक्तस्वरूपा अन्या अपरा लिङ्गवक्रता विद्यते । यत्र यस्यां विशिष्टं योज्यते लिङ्गत्रयाणामेकतमं किमपि कविविवक्षया निबध्यते । कथम् -अन्यस्मिन् संभवत्यपि, लिङ्गान्तरे विद्यमानेऽपि। किमर्थम्-विच्छित्तये शोभाय। कस्मात् कारणात्वाच्यौचित्यानुसारतः । वाच्यस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्यानुसरणमनुसारस्तस्मात् । . पदाथों चित्यमनुसृत्येत्यर्थः । यथा
त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन् वक्तमशक्नवन्त्यः
शाखाभिरावर्जितपल्लवाभिः ॥८० ॥ अत्र सीतया सह रामः पुष्पकेनावतरंस्तस्याः स्वयमेव तद्विरहवैधर्यमावेदयति-तत्त्वं रावणेन तथाविधत्वरापरतन्त्रचेतसा मार्ग यस्मिन्नपनीता तत्र तदुपमर्दवशात्तथाविधसंस्थानयुक्तत्वं लतानामुन्मुखत्वं मम त्वन्मार्गानुमानस्य निमित्ततामापन्नमिति वस्तु विच्छित्त्यन्तरेण रामेण योज्यते । यथा--हे भीरु स्वाभाविकसौकुमार्यकातरान्तःकरणे, रावणेन तथाविधकरकर्मकारिणा यस्मिन्मार्गे त्वमपनीता तमेता: साक्षात्कारपरिदृश्यमानमर्तयो