________________
२.२३] द्वितीयोन्मेपः
१०१ लता: किल ममादर्श यन्निति । तन्मार्गप्रदर्शनं परमार्थतस्तासां निश्चेतनतया न संभाव्यत इति प्रतीयमानवृत्तिरुत्प्रेक्षालंकार: कवेरभिमतः । यथा --तव भीरुत्वं रावणस्य क्रौर्यं ममापि त्वत्परित्राणप्रयत्नपरतां पर्यालोच्य स्त्रीस्वभावादार्द्रहृदयत्वेन समुचितस्वविषयपक्षपातमाहात्म्यादेता: कृपयव मम मार्गप्रदर्शनमकुर्वनिति । केन करणभूतेन --- शाम्बाभिरावर्जित पल्लवाभिः । यस्माद्वागिन्द्रियवर्जितत्वाद्वक्तुमशक्नवन्त्य: । यत्किल ये केचिदजल्पन्तो मार्गप्रदर्शनं प्रकुर्वन्ति ते तदुन्मुखीभूतहस्तपल्लवैर्बाहुभिरित्येतदतीव युक्तियुक्तम् । तथा चात्रैव वाक्यान्तरमपि विद्यते
मृग्यश्च दर्भाङकुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्या
मुत्पक्ष्मराजीनि विलोचनानि ।। ८१ ॥ हरिण्यश्च मां समबोधयन्। कीदृशम् तवागतिज्ञम्, लताप्रदर्शितमार्गमजानन्तम् । ततस्ताः सम्यगबोधयन्निति, यतस्तास्तदपेक्षया किंचित्प्रबुद्धा इति। ताश्च कीदृश्यः-तथाविधवैशससंदर्शनवशाद् दुःखितत्वेन परित्यक्ततृणग्रासाः। कि कुर्वाणा:-तस्यां दिशि नयनानि समर्पयन्त्यः । कीदृशानि-ऊर्वीकृतपक्ष्मपङ्क्तीनि। तदेवं तथाविधस्थानकयुक्तत्वेन दक्षिणां दिशमन्तरिक्षण नीतेति संज्ञया निवेदयन्त्यः । अत्र वृक्षमृगादिषु लिङ्गान्तरेषु संभवत्स्वपि स्त्रीलिङ्गमेव पदार्थो चित्यानुसारेण चेतनचमत्कारकारितया कवेरभिप्रेतम् । तस्मात् कामपि वक्रतामावहति । • एवं प्रातिपदिकलक्षणस्य सुबन्तसंभविनः पदपूर्वार्धस्य यथासंभवं वक्रभावं विचार्येदानीमभयोरपि सुप्तिङन्तयोर्धातुस्वरूपः पूर्वभागो यः संभवति तस्य वक्रतां विचारयति । तस्य च