________________
वालि नाविना
[२.२१ __एषा वणितस्वरूपा भाववैचित्र्यवक्रता भवत्यस्ति । भावो धात्वर्थरूपस्तस्य वैचित्र्यं विचित्रभाव: प्रकारान्तराभिधानव्यतिरेकि रामणीयकं तेन वक्रता वक्रत्वविच्छित्तिः । कीदृशी - यत्र यस्यां भावः सिद्धत्वेन परिनिष्पन्नत्वेनाभिधीयते भण्यते । कि कृत्वा - साध्यतामप्यनादत्य निष्पाद्यमानतां प्रसिद्धामष्यवधीर्य । तदिदमत्र तात्पर्यम् ---- यत् साध्यत्वेनाभिधानादपरिनि पत्तेः प्रस्तुतस्यार्थस्य दुर्बलः परिपोपः तस्मात् सिद्धत्वेनाभिधानं परिनिष्पन्नत्वात्पर्याप्तं प्रकृतार्थपरिपोषमावहति । यथा
श्वासायासमलीमसाधररुचेर्दोःकन्दलीतानवात् केयरायितमङ्गदैः परिणतं पाण्डिम्नि गण्डत्विषा । अस्याः कि च विलोचनोत्पलयगेनात्यन्तमश्रस्रता
तारं तादगपाङ्गयोररुणितं येनोत्प्रतापः स्मरः ।। ७५ ।। अत्र भावस्य सिद्धत्वेनाभिधानमतीव चमत्कारकारि ।
एवं भाववकता विचार्य प्रातिपदिकान्तर्वतिनी लिङ्गवत्रतां विचारयति----
भिन्नयोलिङ्गयोर्यस्यां सामानाधिकरण्यतः ।
कापि शोभाभ्युदेत्येषा लिङ्गवैचित्र्यवक्रता ॥२१॥ एषा कथितस्वरूपा लिङ्गवैचित्र्यवत्रता स्त्यादिविचित्रभाववक्रताविच्छित्तिः । भवतीति संबन्धः, क्रियान्तराभावात् कीदृशी --- यस्यां यत्र भिन्नयोविभक्तस्वरूपयोलिङ्गयोर्द्वयोः सामाना धिकरण्यतस्तुल्याश्रयत्वादेकद्रव्यवृत्तित्वात् काश्यपूर्वा शोभाभ्युदेति कान्तिहरूलसति । यथा
यस्यारोपणकर्मणापि बहवो वीरव्रतं त्याजिताः कार्य पुङ्क्तिबाणमीश्वरधनुस्तद्दोभिरेभिर्मया ।