________________
२.२०]
द्वितीयोन्मेषः
९७
मनोज्ञामुद्वत्तस्मरपरिमल स्पन्दसुभगामहो दत्ते शोभामधिमधु लतानां नवरसः ।। ७२ ।। अत्र 'अधिमधु' शब्दे विभक्त्यर्थविहितः समासः समयाभिधाय्यपि विषयसप्तमी प्रतीतिमुत्पादयन् 'नवरस' शब्दस्य श्लेषच्छायाच्छुरणवैचित्र्यमुन्मीलयति । एतदवत्तिविरहिते विन्यासान्तरे वस्तुप्रतीती सत्यामपि न तादृक्तद्विदाह्लादकारित्वम् । उद्वृत्त-परिमलस्पन्द-सुभग-शब्दनामुपचारवत्वं परिस्फुरद्विभाव्यते । यथा च आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीव्यातन्त्रद्भिः किमिव सिततां चेष्टितैस्ते न नीतम् । अध्येतासां दयितविरहे विद्विषत्सुन्दरीणां
रानीता नखपदमयी मण्डना पाण्डिमानम् ॥ ७३ ॥
अत्र पाण्डुत्व- पाण्डुता-पाण्डुभाव - शब्देभ्यः पाण्डिम - शब्दस्य किमपि वृत्तिवैचित्र्यवत्वं विद्यते । यथा च
कान्त्योन्मीलति सिहलीमुखरुचां चर्णाभिषेकोल्लसल्लावण्यामृतवाहिनिर्झरजपामाचान्तिभिश्चन्द्रमाः । येनापान महोत्सवव्यतिकरेष्वेकातपत्रायते देवस्य त्रिदशाधिपावधिजगज्जिष्णोर्मनोजन्मनः ॥ ७४ ॥
अत्र सुब्धातुवृत्तेः समासवृत्तेश्च किमपि वक्रतावैचित्र्यं परिस्फुरति ।
एवं वृत्तिवक्रतां विचार्य पदपूर्वार्ध भाविनीमुचितावसरां भाववक्रतां विचारयति
साध्यतामप्यनादृत्य सिद्धत्वेनाभिधीयते ।
यत्र भावो भवेदेषा भाववैचित्र्यवऋता ॥ २० ॥