________________
वक्रोक्तिजीवितम्
[२.१९ जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मादित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ।। ६९ ।। यथा च
दाहोऽम्भ प्रसृतिपचः इति ।। ७० ॥ यथा च
पायं पायं कलाचीकृतकदलिदलम् ।। ७१॥ इति। अत्र सुभगंमन्यभावप्रभृतिष शब्देषु मुमादिपरिस्पन्दसुन्दराः संनिवेशच्छायाविधायिनी वाचकवत्रता प्रत्ययाः पुष्णन्ति ।
एवं प्रसङ्गसमुचितां पदमध्यवर्तिप्रत्ययवक्रतां विचार्य समनन्तरसंभविनी वृत्तिवक्रतां विचारयति
अव्ययीभावमुख्यानां वृत्तीनां रमणीयता ।
यत्रोल्लसति सा ज्ञेया वृत्तिवैचित्र्यवक्रता ॥१९॥ सा वृत्तिवैचित्र्यवक्रता ज्ञेया बोद्धव्या । वृत्तीनां वैचित्र्यं विचित्रभावः सजातीयापेक्षया सौकुमार्योत्कर्षस्तेन वक्रता वक्रभावविच्छित्ति: । कीदशी-रमणीयता यत्रोल्लसति । रामणीयक यस्यामुद्भिद्यते । कस्य-वृत्तीनाम् । कासाम् – अव्ययीभावमुख्यानाम् । अव्ययीभावः समासः मुख्यः प्रधानभतो यासां तास्तथोक्तास्तामां समामतद्धितमुब्धातुवृत्तीनां वैयाकरणप्रसिद्धानाम् । तदयमत्रार्थः-- यत्र स्वपरिस्पन्दसौन्दर्यमेतासां समचितभित्तिभागोपनिबन्धादभिव्यक्तिमासादयति । यथा
अभिव्यक्तिं तावद् बहिरलभमान: कथमपि स्फुरन्नन्तः स्वात्मन्यधिकतर समर्छिततर 1