SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ २.१७-१८] द्वितीयोन्मेषः रमणीयतां नीतमिति । विवक्षयो पहत यथा . ___सोऽयं दम्भधृतवत: प्रियतमे कर्तुं किमप्युद्यतः ॥६६॥ इति । प्रथममेव व्याख्यातम् । ___ एव संवृतिवक्रतां विचार्य प्रत्ययवक्रताया: कोऽपि प्रकार: पदमध्यान्तर्भूतत्वादिहैव समुचितावसरस्तस्मात्तद्विचारमाचरति प्रस्तुतौचित्यविच्छित्ति स्वमहिम्ना विकासयन् । प्रत्ययः पदमध्येऽन्यामुल्लासयति वक्रताम् ॥ १७ ॥ कश्चित् प्रत्ययः कृदादिः पदमध्यवृत्तिरन्यामपूर्वां वक्रतामुल्लासयति वक्रभावमुद्दीपयति । किं कुर्वन्-प्रस्तुतस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्य विच्छित्तिमुपशोभा विकासयन् ममल्लासयन् । केन–स्वमहिम्ना निजोत्कर्षेण । यथा वेल्लद्वलाका घनाः ॥६७ ।। यथा वा ___ स्निह्यत्कटाक्षे दृशौ इति ।। ६८॥ अत्र वर्तमानकालाभिधायी शतप्रत्ययः कामप्यतीतानागतविभ्रमविरहितां तात्कालिकपरिस्पन्दसुन्दरी प्रस्तुतौचित्यविच्छितिमुल्ला सयन् सहृदयहृदयहारिणी प्रत्ययवक्रतामावहति । इदानीमेतस्याः प्रकारान्तरं पर्यालोचयति---- आगमादिपरिस्पन्दसुन्दरः शब्दवताम् । परः कामपि पुष्णाति बन्धच्छायाविधायिनीम् ।।१८।। परो द्वितीयः प्रत्ययप्रकारः कामध्यपूर्वा शब्दवत्रतामावध्नाति वाचकवक्रतां विदधाति । कीदक-आगमादिपरिस्पन्दसुन्दरः । आगमो मुमादिरादिर्यस्य स तथोक्तः, तस्यागमादेः परिस्पन्दः स्त्रविलसितं तेन सुन्दर: मुकुमारः । कीदृशीं शब्दवकताम्--- बन्धच्छायाविधायिनी संनिवेशकान्तिकारिणीमित्यर्थः । यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy