________________
९४
वक्रोक्तिजीवितम्
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ।। ६१॥
[२.१६
अयमपरः प्रकारो यत्र स्वानुभवसंवेदनीयं वस्तु वचसा वक्तुमविषय इति ख्यापयितुं संत्रियते । यथा
तान्यक्षराणि हृदये किमपि ध्वनन्ति ।। ६२ ।।
इति । पूर्वमेव व्याख्यातम् ।
इदमपि प्रकारान्तरं संभवति यत्र परानुभवसंवेद्यस्य वस्तुनो वक्तुरगोचरतां प्रतिपादयितुं संवृतिः क्रियते । यथा
मन्मथ : किमपि येन निदध्यौ ।। ६३ ।। अत्र हि त्रिभुवनप्रथितप्रतापमहिमा तथाविधशक्तिव्याघातविषण्णचेताः कामः किमपि स्वानुभवसमुचितमचिन्तयदिति ।
यथा वा
इदमपरं प्रकारान्तरमत्र विद्यते -यत्र स्वभावेन कविविवक्षया वा केनचिदापहत्येन युक्तं वस्तु महापातकमिव कीर्तनीयतां नार्हतीति समर्पयितुं संव्रियते । यथा
दुर्वचं तदथ मास्म भून्मृगयदकरिष्यदोजसा ।
नैनमान यदि वाहिनीपतिः
प्रत्यपत्स्यत शितेन पत्रिणा ।। ६४ ।।
निवार्यतामालि किमध्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते
शृणोति तस्मादपि यः स पापभाक् ।। ६५ । अत्रार्जुनमारणं भगवदपभाषणं च न कीर्तनीयनामर्हतीति संवरणेन